पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
वीरवैरागिचरितम्


सरहिन्दमभिजामुः । समानविध्वंसात्प्रागेव वजीरखानोऽपि चारचक्षुः स्वचक्षुर्भूतैश्चारै: चारयाम्बभूव । समानासीमसु समभिगच्छन्तश्च ते वैरागिवीरवैरविधिम् विवित्सवः वैरागिवीरपुरुषैः हस्तगाता: विकर्ण नासिकीकृता: वजीरखानं प्रति प्रेषिताः शास्तुः रोगं शोकं च पर्य- वर्धयन् । घुरमग्रामपठाना अपि वैरागिवीरैः विध्वंसिताः। थस्का- थानेसर (स्थाण्वीश्वर) शाहबादादयोऽपि विधेयीकृताः वैरागिवीर- पौरुषं प्रख्यापयामासुः। बृहत्कायभुशुण्डीद्वययुक्ताश्च मुग़ला: मुस्तफ़ा- बादस्थले वैरागिवीरवीरान् विरोद्धुम् निरोद्धुम् च संनद्धाः बभूवुः। लोप्त्रलुब्धाश्च वैरागिणः पर्ष्णिग्राहाः प्राणत्राणाय परितो विदुद्रुवुः परं वैरागिवीरैः सोत्साहैः भुशुण्डीद्वयभारोऽपि स्वकौशलेन लघूकृतः मुग़लाश्च कान्दिशोकीकृताः। भुशुण्ड्यो च हस्तगतीकृते । लोप्त्रलुब्धाः कान्दिशीका: पुनरपि वैरागिवीरपृतनापार्ष्णिग्र।हः बभूवुः। सधौरा- समीपगतः कपूरिग्रामः वैरागिवीरैराक्रान्तः । सघोराग्रामसम्राट् चोस्मानखानः लम्पटः ग्रामीणजनगणधनमानजिघृक्षुः स्त्रीसतीत्व भृम्शयिता ग्रामीणजनगणजुगुप्सित: आसीत् । चतुर्गुणकरदाना क्रान्तिदूनाः हिन्दवः रथ्यास्वेव प्रत्यक्षमुस्मानखानानुचरैः हन्यमानाः गा: विलोक्य 'त्राहि त्राहि’ भगवन् ! ‘त्राहि नः' इति करुणाक्रन्दं क्रन्दन्तः प्रार्थयामासुः । गोघ्नाः गवां गात्राणि हिन्दूनां गृहाणां पुरस्तादेव प्रचिक्षिपुः रुधिरस्रोतांसि च तत्रैव प्रसुस्नुवु:। बीभत्सदर्शन- मिदं विज्ञाय वैरागीविगतचेतनोऽपि विधृतवैरचेतनो हिन्दूनां मृतकानपि निखातान् विलोक्य वज्राक्रुष्टकृत्कशाप्रहारोत्तेजित इव मृगारातिः धन्वोद्भान्तमृगानिव पिपासुकान् मुसलमानान् व्याकुलीकृत्य मारयितुं मतिं बबन्ध । बुद्धशाहाख्यश्च पीर: गोविन्दगुरुसाह्यापादनदोषदूषितः उस्मानखानेन भंगानीस्थलयुद्धगतः कृपाणधारीकृतोऽभूत् । वैरागिवीरो न शशाक समाचारमिमं सोढुम् नगरमिदञ्च सञ्चक्राम । सर्वकारीय: सेना: तस्य पुरो न शेकुः स्थातुं पराजिताश्च ताः पलायितः। कान्दिशीकाश्च सैनिकः सय्यदहम्येर्षु शरणागताः परम् वैरागिवीरेण पशुमारं मारिताः । कथ्यते यत् नगरवास्तव्या: मुसलमाना: शाहबदरुद्दीनस्य आस्थानमण्डपं प्रविविशुः सम्भाव्यैतद्यत् कृपाणीकृत: सय्यद: दिवंगतस्य गुरोः गोविन्दस्य सखाऽऽसीत् परं शिष्याः न तेषु दयामाकार्षु: । पशुमारंमारणव्यवहारात्स्थलमिदं शुनास्थलं ‘कत्लगढी' ति पारस्यभाषपरनामसत्कं इति व्याहृतिम् लेभे। ।