सरहिन्दमभिजामुः । समानविध्वंसात्प्रागेव वजीरखानोऽपि चारचक्षुः
स्वचक्षुर्भूतैश्चारै: चारयाम्बभूव । समानासीमसु समभिगच्छन्तश्च ते
वैरागिवीरवैरविधिम् विवित्सवः वैरागिवीरपुरुषैः हस्तगाता: विकर्ण
नासिकीकृता: वजीरखानं प्रति प्रेषिताः शास्तुः रोगं शोकं च पर्य-
वर्धयन् । घुरमग्रामपठाना अपि वैरागिवीरैः विध्वंसिताः। थस्का-
थानेसर (स्थाण्वीश्वर) शाहबादादयोऽपि विधेयीकृताः वैरागिवीर-
पौरुषं प्रख्यापयामासुः। बृहत्कायभुशुण्डीद्वययुक्ताश्च मुग़ला: मुस्तफ़ा-
बादस्थले वैरागिवीरवीरान् विरोद्धुम् निरोद्धुम् च संनद्धाः बभूवुः।
लोप्त्रलुब्धाश्च वैरागिणः पर्ष्णिग्राहाः प्राणत्राणाय परितो विदुद्रुवुः
परं वैरागिवीरैः सोत्साहैः भुशुण्डीद्वयभारोऽपि स्वकौशलेन लघूकृतः
मुग़लाश्च कान्दिशोकीकृताः। भुशुण्ड्यो च हस्तगतीकृते । लोप्त्रलुब्धाः
कान्दिशीका: पुनरपि वैरागिवीरपृतनापार्ष्णिग्र।हः बभूवुः। सधौरा-
समीपगतः कपूरिग्रामः वैरागिवीरैराक्रान्तः । सघोराग्रामसम्राट्
चोस्मानखानः लम्पटः ग्रामीणजनगणधनमानजिघृक्षुः स्त्रीसतीत्व
भृम्शयिता ग्रामीणजनगणजुगुप्सित: आसीत् । चतुर्गुणकरदाना
क्रान्तिदूनाः हिन्दवः रथ्यास्वेव प्रत्यक्षमुस्मानखानानुचरैः हन्यमानाः
गा: विलोक्य 'त्राहि त्राहि’ भगवन् ! ‘त्राहि नः' इति करुणाक्रन्दं
क्रन्दन्तः प्रार्थयामासुः । गोघ्नाः गवां गात्राणि हिन्दूनां गृहाणां
पुरस्तादेव प्रचिक्षिपुः रुधिरस्रोतांसि च तत्रैव प्रसुस्नुवु:। बीभत्सदर्शन-
मिदं विज्ञाय वैरागीविगतचेतनोऽपि विधृतवैरचेतनो हिन्दूनां मृतकानपि
निखातान् विलोक्य वज्राक्रुष्टकृत्कशाप्रहारोत्तेजित इव मृगारातिः
धन्वोद्भान्तमृगानिव पिपासुकान् मुसलमानान् व्याकुलीकृत्य मारयितुं
मतिं बबन्ध । बुद्धशाहाख्यश्च पीर: गोविन्दगुरुसाह्यापादनदोषदूषितः
उस्मानखानेन भंगानीस्थलयुद्धगतः कृपाणधारीकृतोऽभूत् । वैरागिवीरो
न शशाक समाचारमिमं सोढुम् नगरमिदञ्च सञ्चक्राम । सर्वकारीय:
सेना: तस्य पुरो न शेकुः स्थातुं पराजिताश्च ताः पलायितः।
कान्दिशीकाश्च सैनिकः सय्यदहम्येर्षु शरणागताः परम् वैरागिवीरेण
पशुमारं मारिताः । कथ्यते यत् नगरवास्तव्या: मुसलमाना:
शाहबदरुद्दीनस्य आस्थानमण्डपं प्रविविशुः सम्भाव्यैतद्यत्
कृपाणीकृत: सय्यद: दिवंगतस्य गुरोः गोविन्दस्य सखाऽऽसीत् परं
शिष्याः न तेषु दयामाकार्षु: । पशुमारंमारणव्यवहारात्स्थलमिदं
शुनास्थलं ‘कत्लगढी' ति पारस्यभाषपरनामसत्कं इति व्याहृतिम् लेभे। ।
पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
वीरवैरागिचरितम्