पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
अथ तृतीय उच्छ्वासः


स्थानीया: सज्जना एव वस्तुतः मुसलमानदुर्जनद्रोहविद्रोहदाहदग्धाः वैरागिवीरसाह्यसमपेक्षिण: हृदयविदारणीं क्रियायिमामकार्षु:। काजी- सय्यदशेखानां क्रूरकर्माणि विलोक्य वैरागिवीरस्तत्रागत आसीत् । तस्यैव संरक्षणमाधायोत्तेजिताः स्थानीयवीराः प्रतीकारप्रवणाः स्वच्छन्दव्यवहारिणश्च पशुमारणक्रियामकार्षु:। छतबनूरस्थलयोरपि मुसलमानाः गोघातकाः बभूवुः तत्कारणादेव ते इष्टिपशुमारं मारिताः। लघुस्थलानीमानि विजित्य वैरागिवीरेण स्वदेशीयानां हृदयानि सोत्साहानि कृतानि । मनोबलोल्लसिताश्च ते सर्व एव सुखनिःश्वासं निशश्वसिरे । एभिरेव विजयैः बृहद्विजयपद्धतिश्च निर्मिता ।

मालवीयशिष्याणां सम्पर्केण वैरागिवीरस्य पदपद्धतिः सुख- सञ्चरैव जाता । मालवीयाः नेतारस्तस्य प्रशस्तीः समगायन् । वजीरखानश्च तेषां व्यवहारे व्यवधानमकरोत् । वीतशुल्कशरण- स्थानागारप्रभृतीषु मुख्यानपि स आदिदेश शिष्याणां सुखप्रसरप्रचार प्रतिबन्धाय। परम् ।


 अकातरास्ते च शपत्यैकमूढाः
 अकान्विशोकाश्च नयैक लुब्धा: ।
 सविग्रहा: आसनयानगूढा:
 सगौरवा: भैरवरागमापुः ।। ५ ।।


 कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाश्च ते तीक्ष्णा- ग्निरसदाः भिक्षुश्रमणभूताः नटनर्तकगायनवादकवग्ग्जीवनकुशीलव- व्यवसाया: मत्तोन्मत्ताः विविधशिल्पव्यवहारिणश्व व्यापारिवर्ग- समकक्ष्याः सुगुप्तिगुप्ताः चत्वारिंशद्धरणोपायांश्च प्रयुञ्जाना: गूढप्रणिधयोऽपि न गूढ़प्रणिधयो सच्छन्नरूपा अपि स्वच्छन्द व्यवहारिणः संकटस्था अपि विकटव्यवस्थाः वैरागिणोऽपि वैरागिणः कृतककलहकारिणोऽपि न कामलाः अकमलव्यवहारिणोऽपि सकलमलापहारिण: अकीर्तिकृतां कीर्तिमलनमूढाः मालव्या: शिष्याः किशोर सिंहरामसिंहप्रभृतिप्रमुखपण्याजीवसम्पर्कगताः किरातपुर- सदृशकीर्तिपुराख्यं पुरं प्रापुः । स्वागतीकृताश्चात्र ते स्थानीयसज्जनैः मझेलशिष्यसमेताः सौभाग्यमात्मीयं मेनिरे । प्रतीक्षमाणाश्च वैरागि- वीरागमनं चिरायिताः भृशदुःखिताश्च वैरागिवीराय लेखहारकं