पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
472
[बालकाण्डः
इक्ष्वाकुवंशवर्णनम्

सामग्रीसम्पादकत्वात् । इमां प्रीतीं-विवाहकल्याणसन्तोषं मया सह भोक्तुमर्हति । अतस्तदानयनं कारयत्विति शतानन्दमुवाचेति योजना ॥

 शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।
 [१]समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ ५ ॥

 एवं नरेन्द्रस्य-जनकस्य शासनात् शतानन्दप्रेषिताः प्रययुः । दूता इति शेषः । विष्णुः-उपेन्द्रः ॥ ५ ॥

 अज्ञायाऽथ नरेन्द्रस्य आजगाम कुशध्वजः ।
 स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ ६ ॥
 अभिवाद्य शतानन्दं राजानं चापि धार्मिकम् ।
 राजार्हं परमं दिव्यमासनं सोऽध्यरोहत ॥ ७ ॥

 सोऽध्यरोहतेति। पुरोहितज्येष्ठानुमत्येति शेषः ॥ ७ ॥

 उपविष्टावुभौ तौ तु आवरावतितेजसौ ।
 प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ॥ ८ ॥
 गच्छ मन्त्रिपते ! शीघ्रमैक्ष्वाकममितप्रभम् ।
 आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥

 सुदामनं क्व प्रेषयामासतुरित्यतः-गच्छेत्यादि ॥ ९ ॥

 औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ।
ददर्श, शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥

 औपकार्यामिति । उपकर्याशब्दात् स्वार्थे ष्यञ् । दशरथशिबिरसन्निवेशमित्यर्थः ॥ १० ॥


  1. 'एतदनन्तरं 'सांकाइयां ते समागत्य ददृशुश्च कुशध्वजम् । न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम् ॥ तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाबलैः ॥ इत्यधिकं–ङ ।