पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७० सर्गः]
473
सुखोपविष्टाः सर्वेऽपि यथार्ह त्वासनेषु ते

 अयोध्याधिपते वीर ! वैदेहो मिथिलाधिपः ।
 स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ ११ ॥
 मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ।
 सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ १२ ॥
 स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ।
 वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३ ॥

 इदं वाक्यमिति । निजकुलप्राशस्त्यप्रतिपादनप्रयोजननिज पुरोहितनियोजनरूपवक्ष्यमाणवाक्यमित्यर्थः ॥ १३ ॥

 विदितं ते, महाराज ! इक्ष्वाकुकुलदैवतम् ।
 वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ॥ १४ ॥

 ते विदितमिति । 'मतिबुद्धि' इत्यादिना वर्तमानार्थे क्ते क्तस्य च वर्तमाने' इति षष्ठी। त्वया विदितं इत्यर्थः । वक्तेति । कृत्याकृत्यानीति यावत् ॥ १४ ॥

 [१]विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।
 [२]एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ १५ ॥

 वक्ष्यतीति । दशपुरुषविख्यातादिति न्यायेन यौनसम्बन्धापेक्षितवंशपारम्पर्यमिति शेषः ॥ १५ ॥

 तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ।
 उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ १६ ॥


  1. विश्वामित्रस्य कोपपरिहाराय–विश्वामित्राभ्यनुज्ञात इति गो। परन्त्वेवं सति सर्वैर्महर्षिर्भिरिति कथम् ? । अतः ब्रह्मविदां सदसि तदनुशां लब्धेत्यर्थः । तत्र च विश्वामित्रस्य प्रकरणात्प्राधान्यकथनमिति युक्तम् ॥
  2. एतदनन्तरं ' एवमुक्ता नरश्रेष्ठे राशां मध्ये महात्मनाम्' इत्यधिकं-ङ.