पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
474
इक्ष्वाकुवंशवर्णनम्

 अव्यक्त प्रभवो ब्रह्मा शाश्वातो नित्य अव्ययः ।
 तस्मान्मरीचिः संजज्ञे मरीचेः [१]कश्यपः सुतः ॥ १७ ॥

 अव्यक्तेति । सत्त्वादिशक्तिमयसांध्यभूमविग्रहात्मकमादिविष्णुतत्त्वं अव्यक्तं । यद्यपि अतितुर्यादिरुद्रतत्त्वानामेवानुपग्रहविकल्प- चिद्गगनत्वकालकृतिमात्रोपग्रहत्वतत्कार्याविविक्तत्रिगुणमात्रोपग्रहतोऽव्यक्तत्वं साक्षात्, अथापि सांध्यत्वादादिविष्णुतत्त्वम[२]प्यनादिब्रह्मतत्त्ववदिहामुत्रव्यवहारार्हस्थिराव्यक्तमेव । तस्मादव्यक्तात्त्रिशक्तिमयादुस्थितैस्त्रिरूपकालाकाशैस्त्रिवृत्पञ्चकभक्तैर्हिरण्मयभूममहाविराडण्डोपग्रहो भगवानादिगुरुस्त्रिमूर्तिलीला मूर्तिस्तुर्य आदिब्रह्मा स महेशस्सकलसंसारशाश्वतसकलपुरुषार्थसाक्षात्प्रवर्तको नित्यं जाग्रन्निस्तुलाधिकभूमविद्यैश्वर्यानन्दशक्तिर्नित्यं प्रतितिष्ठति । सोऽसौ हिरण्यगर्भादित्रिब्रह्मलीलामूर्तिरपि शाश्वतत्वादिस्वभावः, स्वराजश्रीहिरण्यगर्भस्य गगनात्मकत्वादेव शाश्वतत्वं-अविकारसदैकरूपत्वं सम्राजः कालाग्निस्वभावत्वेन स्वेतरसकलसंसारानित्यतासम्पादकस्य तस्यानित्यतासम्पादकहेत्वभावात् नित्यविराजो यद्यपि कालविकार्यत्वेनानित्यत्वं, अथाप्यव्ययत्वं नित्यनियतप्रवृत्तत्रिमण्डलीनित्यजाय[३]मानाशयोत्कर्षसासाम्ययोगतः प्रत्यग्वत्कालत्रयेऽप्यवयवविनाशरहितत्वात् । सिद्धान्तविदेकसुलभोऽयमर्थः । प्रपञ्चः आकरे द्रष्टव्यः । तस्मात् विराजः प्रजापतेः दशप्रजापतिष्वेको मरीचिर्जज्ञे । ततः काश्यप इत्यादिः ॥ १७ ॥

 विवस्वान् कश्यपाञ्जज्ञे मनुर्वैवस्वतः स्मृतः ।
 मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ १८ ॥

 मनुः प्रजापतिरिति । प्रजासर्गाधिकारीति यावत् ॥ १८ ॥


  1. काश्यपः - ङ.
  2. प्यादि-ग.
  3. मानोत्कर्ष-ग.