पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७० सर्ग:]
475
वसिष्ठः कथयामास सूर्यवंशपरंपराम्

 तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।
 इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः ॥ १९ ॥
 कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ।
 विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ॥ २० ॥
 बाणस्य तु महातेजा अनरण्यः प्रतापवान् ।
 अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोस्सुतः ॥ २१ ॥
 त्रिशङ्कोरभवत्पुत्रो [१]धुन्धुमारो महायशाः ।
 धुन्धुमारान्महातेजा युवनाश्वो महारथः ॥
 युवनाश्वसुतस्त्वासीत् [२]मान्धाता पृथिवीपतिः ॥ २२ ॥
 मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत ।
 सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ २३ ॥
 यशस्वी, ध्रुवसन्धेस्तु भरतो नाम नामतः ।
 भरतात्तु महातेजा असितो नाम जातवान् ॥ २४ ॥
 [३]तस्यैते प्रतिराजान उदपद्यन्त शत्रवः ॥
 हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २५ ॥
 तांस्तु स प्रतियुध्यन् वै युद्धे राज्यात्प्रवासितः ।

 तस्यैत इति । असितस्येत्यर्थः। प्रतिराजानः-शत्रुराजानः । राज्यात्प्रवासित इति । न तु हत इत्यर्थः ॥ २५ ॥

 हिमवन्तमुपागम्य [४]भृगुप्रस्रवणेऽवसत् ॥ २६ ॥
 असितोऽल्पबलो राजा [५]मन्त्रिभिस्सहितस्तदा ।


  1. अत्र गोविन्दराजीये अनन्तरमर्धं नास्ति । धुन्धुमारः-युवनाश्वापरनामधेय इति च व्याख्यातम् ॥
  2. अस्य कथा उत्तरकाण्डे सप्तषष्टितमे सर्गे द्रष्टव्या ।
  3. यस्य सर्वत्र-ङ.
  4. भार्याभ्यां सहितोऽवसत्-ङ.
  5. कालधर्ममुपेयिवान्-ङ.