पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
476
[बालकाण्डः
इक्ष्वाकुवंशवर्णनम्

 द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति [१] श्रुतिः ॥ २७ ॥
 एका गर्भविनाशाय सपत्न्यै [२]सगरं ददौ ।

 इति श्रुतिरिति । पुरातनकथेत्यर्थः । सगरं-गरसहितं । भक्ष्यामिति शेषः ॥ २७ ॥

 ततः शैलवरं रम्यं बभूवाभिरतो मुनिः ॥ २८ ॥
 भार्गवश्चयवनो नाम हिमवन्तमुपाश्रितः ।

 ततश्शैलवरं रम्यं हिमवन्तमुपाश्रितो भार्गवश्चयवनो मुनिः तत्रैव हिमवति अभिरतो बभूव ॥

 तत्र चैका महाभागा भार्गवं देववर्चसम् ॥ २९ ॥
 ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मनः ।

 तत्र चैकेति । प्राशितगरेति यावत् ॥ २९ ॥

 तमृषिं साऽभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ ३० ॥
 [३]तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।

 कालिन्दीति तस्या नाम । अभ्यवादयच्चेति चकारेण शुश्रूषणमप्यकरोत् ; पुत्रार्थमित्यर्थः । पुत्रमाप्तुमिच्छुः पुत्रेप्सुः । पुत्र-जन्मनि-पुत्रोत्पत्तिविषये ॥ ३० ॥

 तव कुक्षौ महाभागे ! सुपुत्रः सुमहाबलः ॥ ३१ ॥
 महावीर्यो महातेजाः अचिरात्सञ्जनिष्यति ॥
 [४]गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥ ३२ ॥


  1. श्रुतम्-ङ.
  2. सा गरं-ङ.
  3. तामभि-तां प्रतीत्यर्थः ।
  4. एतदनन्तरं-एवमुक्ता महाभागा, असिते स्वर्गते सति । निधाय चेतो नृपतौ विद्युल्लेखेव सुप्रभा ॥ ३५ ॥ -इत्यधिकं-ङ.