पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७० सर्गः]
477
ततस्स वरयामास रामाय जनकात्मजाम्

 गरेण सहितस्सन् जनिष्यतीति मुनेः प्राप्तानुग्रहात् । तत्पुत्रकालमृतपतिकां ऋषिराश्वासयति च-माशुच इति । पतिमृति-जशोकंत्यज; सुपुत्रेणैव सुखीभविष्यसीत्याश्वासयत् ॥ ३२ ॥

 च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।
 [१]पतिना रहिता [२] तस्मात् पुत्रं देवी व्यजायत ॥ ३३ ॥

 अनन्तरं-च्यवनं तु नमस्कृत्य, पतिना रहितेति नाभावश्छान्दसः, तस्मात्-देशादपावृत्तेति शेषः । व्यजायत-प्रसूतवती ॥ ३३ ॥

 सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
 सह तेन गरेणैव जातः स सगरोऽभवत् ॥ ३४ ॥

 जातस्स इति । यतो गरेण सह जातः ततः सगर इति योजना ।

 सगरस्यासमञ्जस्तु असमञ्जात्तथांऽशुमान् ।
 दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ ३५ ॥
 भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ।
 रघोस्तु पुत्रस्तेजस्वी[३]प्रवृद्धः पुरुषादकः ॥ ३६ ॥
 कल्माषपादो ह्यभवत्तस्माञ्जातश्च शङ्खणः ।

 रघुपुत्रः प्रवृद्धस्तु वसिष्ठशापवशात् पुरुषादकः-राक्षसस्समभवत् । प्रतिशापायोद्धृतजलं स पत्न्यनुनयेन स्वपादयोर्विसृष्टवान् । अतः स कल्माषपाद इत्यभवत् ॥ ३६ ॥


  1. पतिशोकातुरा-पत्या विरहिता-ङ.
  2. तस्मात्-च्यवनप्रसादात्-गो. ति. शि.
  3. एतत्कथा उत्तरकाण्डे पञ्चषष्टितमसर्गे वर्तते। परं तु तत्र, भागवते च (९-९) सुदासस्य पुत्रः वीरसहः कल्माषपादः संपन्न इत्युक्तम् ।