पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
478
[बालकाण्डः
इक्ष्वाकुवंशवर्णनम्

 सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ॥ ३७ ॥
 शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।
 मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ॥ ३८ ॥
 अम्बरीषस्य पुत्रोऽभून्नहुपः पृथिवीपतिः ।
 नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ ३९ ॥
 नाभागस्य बभूवाज अजाद्दशरथोऽभवत् ।
 अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ४० ॥

 नाभागस्याजः, अजाद्दशरथ इति । [१]एवमत्रोक्तवंशपरम्परायां पुराणादिवैषम्यं बह्वस्ति । तत्सर्वं चतुर्युगसहस्रमानभगवद्विराजाहनि किञ्चित्किञ्चिद्युगभेदवशजं इति ध्येयम् ॥ ४० ॥

 आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।
 इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ ४१ ॥

 आदिवंशेति । आदितः–ब्रह्माणमारभ्य वंशेन विशुद्धास्तथा ॥ ४१ ॥

 रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप !
 सदृशाभ्यां नरश्रेष्ठ ! [२]सदृशे दातुमर्हसि ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्ततितमस्सर्गः


 त्वत्सुते वरय इति । पुरोहितकृत्यत्वाद्वरणादेरित्याशयः । सदृशेति ।'समानान्ययोश्चेति वक्तव्यम्' इति दृशेः कञि 'टिढ्ढाणञ्' इति ङीबभावश्छान्दसः । समानस्य 'ज्योतिर्जनपद' इत्यादिना विधीयमानस्य सादेशस्य प्रायिकत्वादन्यत्रापि सादेशः ॥ ४२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्ततितमस्सर्गः


  1. एकस्यानेकनामकत्वाद्वा विरोधपरिहारः-ति.
  2. सदृशे-ङ.