पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१ सर्गः ]
479
जनकोऽपि तदोवाच निमिवंशपरंपराम्

अथ एकसप्ततितमः सर्गः
[निमिवंशवर्णनम् ]

 एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।
 श्रोतुमर्हसि, भद्रं ते, कुलं नः परिकीर्तितम् ॥ १ ॥

 अथ दशरथापेक्षया [१]अप्रभावात्, कन्यादातृत्वेन च जामातृवर्गे प्रभावस्यायुक्तत्वाच्च स्वयमेव स्ववंशपरम्परामाचष्टे-एवमित्यादि । ब्रुवाणमिति । वसिष्ठमिति शेषः ॥ १ ॥

 प्रदाने हि[२]नरश्रेष्ठ ! कुलं निरवशेषतः ।
 वक्तव्यं कुलजातेन तन्निबोध महामुने ! ॥ २ ॥

 नरश्रेष्ठानां कुलं-नरश्रेष्ठकुलं ॥ २ ॥

 राजाऽभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
 [३]निमिः परमधर्मात्मा सर्वसच्चवतां वरः ॥ ३ ॥
 तस्य पुत्रो मिथिर्नाम निर्मिता[४]मिथिला यतः ।
 प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥

 तस्य पुत्र इति । तस्य निमेः साम्पराये सति ऋषिभिस्तदुरोमथनेन निर्मितः-उत्पादितो मिथिर्नाम जज्ञे । यतः-येन मिथिना मिथिला पुरी च निर्मिता, स जज्ञे । तथा भागवते ज्ञेयम्- "ममन्थ स निमेर्देहं कुमारस्समजायत' इति ॥ ३-४ ॥


  1. अप्रभावः-प्रभावराहित्यम्
  2. मुनिश्रेष्ठ-ङ. च.
  3. अयं च निमिः इक्ष्वाकुपुत्र इति उत्तरकाण्डे ५५ सर्गे उक्तम् ॥ श्रीभागवते च (९-१३) द्रष्टव्यम् ।
  4. मिथिला येन निर्मिता-ङ. ज.