पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
480
[बालकाण्डः
निमिवंशवर्णनम्

  [१]उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः ।
 [२]नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ५ ॥
 सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
 देवरातस्य राजर्षेबृहद्रथ इति स्मृतः ॥ ६ ॥
 बृहद्रथस्य शूरोऽभून्महा[३].वीरः प्रतापवान् ।
 महा[४]वीरस्य धृतिमान् सुधृतिस्सत्यविक्रमः ॥ ७ ॥
 सुधृतेरपि धर्मात्मा [५] दुष्टकेतुस्सुधार्मिकः ।
  [६]दुष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥
 हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः [७]प्रतिन्धकः ।
  [८]प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथस्सुतः ॥ ९ ॥
 पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।
 देवमीढस्य [९]विबुधो विबुधस्य महीध्रकः ॥ १० ॥
 महीध्रकसुतो राजा कीर्तिरातो महाबलः ।
 कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥
 महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।
 स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत ॥ १२ ॥
 तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।
 ज्येष्ठोऽहमनुजो आता मम वीरः कुशध्वजः ॥ १३ ॥

 तस्येति । ह्रस्वरोम्णः इत्यर्थः ॥ १३ ॥

 मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः ।
 कुशध्वजं समावेश्य [१०]भारं मयि, वनं गतः ॥ १४ ॥


  1. उपावसोस्तु-ङ.
  2. नन्दिवर्धसुतः शूरः-ङ.
  3. वीर्यः-ङ
  4. वीर्यस्य-ङ.
  5. धृष्टकेतोस्तु-ङ.
  6. धृष्टकेतु-ङ.
  7. प्रतीन्धकः, प्रतीन्धनः-ङ.
  8. प्रतीन्धकस्य, प्रतीन्धनस्य-ङ.
  9. सुविधो सुविधस्य-ङ..
  10. भारं–भरणीयं-पोषणीयमित्यर्थः । मयि कुशध्वजं भारं समावेश्येत्यन्वयः ।