पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१ सर्गः]
481
निश्चिक्युर्लक्ष्मणादीनां विवाहमपि ते तदा

 कुशध्वजं राज्यभारं च मयि समावेश्येत्यर्थः । सीरध्वजाख्य इत्यर्थः । "सीता सीराग्रतो जाता तस्मात्सीरध्वजः स्मृतः" इति [१] पुराणम् ॥ १४ ॥

 वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।
 भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥ १५ ॥
 कस्य चित्त्वथ कालस्य सांकाश्यादगमत्पुरात् ।
 सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥ १६ ॥

 [२]मिथिलामवरोधकः अगमदिति । अवरोद्धुमागतवानित्यर्थः । 'तुमुण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल् । 'अकेनोर्भविष्यदाधमर्ण्ययोः' इति कर्माणि षष्ठीनिषेधः ॥ १६ ॥

 स च मे प्रेषयामास, शैवं धनुरनुत्तमम् ।
 सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ १७ ॥

 शैवं धनुस्सीता कन्या चेति उभयं मह्यं दीयतामिति प्रेषयामास । दूतानिति शेषः ॥ १७ ॥

 तस्याप्रदानाद्ब्रह्मर्षे ! युद्धमासीन्मया सह ।
 स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८ ॥

 तस्येति । उक्तोभयवस्तुन इत्यर्थः । अभिमुखः–युद्धाभिमुखः । [३]सुधन्वेति । 'वा संज्ञायां' इत्यानङ् ॥ १८ ॥


  1. भागवतं-९–१३–१०.
  2. मिथिलामवरोधकः मिथिला मगमत्-प्राप्तवान् ।
  3. वस्तुतस्त्विदं व्याख्यानं १६ तमश्लोकव्याख्यानावसरे युक्तम् ।