पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
482
[बालकाण्डः
निमिवंशवर्णनम्

 निहत्य तं मुनिश्रेष्ठ ! सुधन्वानं नराधिपम् ।
 साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चम् कुशध्वजम् ॥ १९ ॥
 कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने !
 ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ! ॥ २० ॥
 सीतां रामाय, भद्रं ते, [१]ऊर्मिळां लक्ष्मणाय च ॥ २१ ॥

 ऊर्मिलामिति । योनिजां निजपुत्रीमित्यर्थः ॥ २१ ॥

 वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ।
 [२]द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥ २२ ॥

 त्रिर्ददामीति । उक्तार्थमितिशेषः । 'त्रिषत्या हि देवाः' इति न्यायादित्याशयः ॥ २२ ॥

 [३]रामलक्ष्मणयो राजन् ! गोदानं कारयस्व ह ।
 पितृकार्यं च, भद्रं ते, ततो वैवाहिकं कुरु ॥ २३ ॥

 [४]गोदानमिति कर्मनाम । गावो रोमाणि, दोःपन्मूलगान्यपि, यत्र दीयन्ते खण्ड्यन्ते तदेतत् गोदानम्, समावर्तनकर्मेति यावत् । वैवाहिकं-पितृकार्यं नान्दीश्राद्धम् ॥ २३ ॥


  1. यद्यपि रामेणैव धनुर्भङ्गः कृतः, तथापि तादृशशक्तेः लक्ष्मणेऽपि दर्शनात् तद्द्वीर्यभेवोर्मिलाया अपि शुल्कमित्यर्थः । हे मुनिपुङ्गव-ते वध्वौ परमप्रीतो ददामीत्यन्वयः ।
    एतदेव विवृणोति उत्तरार्धेन ।
  2. एतदनन्तरं ' ददामि परमप्रीतो वध्वो ते रघुनन्दन ' इत्यधिकं कचित्- ङ.
  3. एवं वसिष्ठं प्रत्युक्ता ततः दशरथं प्रत्याह-रामेत्यादि ।
  4. गोदानं नाम विवाहपूर्वसमनियत किञ्चित्कर्म । गावः – केशाः दोः पादमूल रोमाणि च यत्र खण्ड्यन्ते तत् गोदानं नाम समावर्तनाख्यं कर्मेत्याहुः- गो.