पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२ सर्गः]
483
सीता रामाय देयेति लक्ष्मणायोर्मिला तथा

 मघा ह्यद्य महाबाहो ! [१]तृतीये दिवसे विभो ।
 फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु ।
 रामलक्ष्मणयो राजन् ! दानं कार्यं सुखोदयम् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकसप्ततितमस्सर्गः

 ततो वैवाहिकं–विवाहप्रयोजनं विचित्रवस्त्राभरणाद्यलंकारादिलक्षणं; 'तदस्य प्रयोजनम्' इति ठक् । मघानक्षत्रयुक्तः कालः मघः,' चन्द्रः । अत्रार्थजस्याणस्तु 'लुबविशेषे' इति लुप् । फल्गुन्यामुत्तर इति । उत्तरस्यामिति यावत् । रामलक्ष्मणयोरर्थे-प्रजाधर्मप्रयोजनाय सुखोदयं, व्याकृतं, दानं-कन्यादानमवश्यं कार्यमिति उपसंहारः । भद्र (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकसप्ततितमस्सर्गः


अथ द्विसप्ततितमः सर्गः
[ कन्यावरणम् ]

 तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।
 उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १ ॥


  1. तव मिथिलाप्रवेशात् तृतीयदिवसे, यशसमाप्तेः तृतीयदिवसे वाऽद्य मघा-नक्षत्रम् । फल्गुन्यां–पूर्वफल्गुनी नक्षत्रे, उत्तरे-श्रेष्ठे; अत एव-भगो यत्र प्रजापतिः इत्यनेनाविरोधः । भगो हि पूर्वफल्गुनीदेवः उत्तरफल्गुन्यास्त्वर्यमेति बोध्यम्, 'मघा नक्षत्रं पितरो देवताः; फल्गुनी नक्षत्रं, अर्यमा देवता; फल्गुनी लक्षत्रं, भगो देवता' इति तैत्तरीयसंहितायां 'अर्यम्णः पूर्वे फल्गुनी, भगस्योत्तरे' इति तद्ब्राह्मणे चोक्तत्वात् यथाश्रुतमेव सम्यक्-ति । अद्य-अस्मिन् दिवसे मघा नक्षत्रमस्ति, अतः तृतीयदिवसे उत्तरे फल्गुन्यां-उत्तरफल्गुन्यां-शि.