पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
484
[बालकाण्डः
कन्यावरणम्

 रामलक्ष्मणयोः विवाहप्रसङ्गे भरतशत्रुघ्नयोरपि विवाहप्रस्तावः-तमुक्तवन्तमित्यादि ॥ १ ॥

 अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव !
 इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ २ ॥
 सदृशो धर्मसम्बन्धः सदृशो रूपसंपदा ।
 रामलक्ष्णयो राजन् ! सीता चोर्मिलया सह ॥ ३ ॥

 इक्ष्वाकूणां विदेहानां च धर्मसम्बन्धः–धर्माय सम्बन्धो यौनलक्षणस्तु सदृश एव-अनुरूप एव । अपि च या सीता ऊर्मिळया सह वर्तमाना तस्यास्तस्याश्च क्रमात् रामलक्ष्मणयोः सम्बन्धः-पतिभार्यासम्बन्धः रूपसम्पदा सदृश इति योजना ॥ ३ ॥

 वक्तव्यं च नरश्रेष्ठ ! श्रूयतां वचनं मम ॥ ४ ॥

 हे नरश्रेष्ठ–जनक ! किंचिदन्यदपि वक्तव्यं अस्ति । तदपि मे वचः श्रूयतम् ॥ ४ ॥

 भ्राता यवीयान् धर्मज्ञ ! एष राजा कुशध्वजः ।
 अस्य धर्मात्मनो राजन् ! रूपेणाप्रतिमं भुवि ।
 सुताद्वयं नरश्रेष्ठ ! पत्न्यर्थं वरयामहे ॥ ५ ॥

 किं तदित्यतः–भ्रातेत्यादि ॥ ५ ॥

 भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
 [१]वरयामः सुते राजंस्तयोरर्थे महात्मनोः ॥ ६ ॥

 पत्न्यर्थं वरयाम इति, कयोः पत्न्यर्थमित्यतः–भरतस्येत्यादि ॥ ६ ॥


  1. वरये ते सुते, वरयाम सुते-ङ. ज.