पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२ सर्गः]
485
माण्डवी भरतायेति श्रुतकीर्तिः पराय च

 पुत्रा दशरथस्येमे रूपयौवनशालिनः ।
 लोकपालोपमास्सर्वे देवतुल्यपराक्रमाः ॥ ७ ॥

 दशरथपुत्रेषु न कस्मिन्नपि वरगुणन्यूनताशङ्केत्याह-पुत्रा इत्यादि ॥ ७ ॥

 [१] उभयोरपि राजेन्द्र ! सम्बन्धेनानुबध्यताम् ।
 इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥ ८ ॥

 यदेवमुभयकुलवधूवरयोर्नानाप्रकारतः सम्बन्धानुरूप्यं अतः-उभयोरपीत्यादि । कुलयोरित्यर्थः । सम्बन्धः–यौनसम्बन्धः । भवतः पुण्यकर्मण इति । अनुबध्यतां । सम्पाद्यतामिति यावत् । कुलमव्यग्रमिति अनुकर्षः ॥ ८ ॥

 विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।
 जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ ९ ॥

 वसिष्ठस्य मत इति । वसिष्ठस्याभिमतप्रयोजननिमित्तमुक्तविश्वामित्रवचः श्रुत्वेति योजना ॥ ९ ॥

 कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ ।
 सदृशं कुलसम्बन्धं यदाज्ञाप[२]यथः स्वयम् ॥ १० ॥

 स्वयमिति । न शिष्यादिमुखत इत्यर्थः ॥ १० ॥


  1. उभयोर्भ्रात्रोः (जनककुश ध्वजयोः) सम्बन्धेन इक्ष्वाकुकुलं सम्बध्यताम् । तत्र च सम्बन्धे पुण्यकर्मणो भवतः चित्तमव्ययं भवतु; कथमीदृशेन महाराजेन मया-युगपत्सम्बन्ध चतुष्टयं कार्यमिति व्यग्रता मारित्वत्यर्थः-ति. उभयोर्युवयोः सम्बन्धेन कुलद्वयमप्यनुबध्यत— भवतः कुलमित्यनुकर्षः, अव्यग्रं–निर्दोषं, अन्योन्यसम्बन्धेनान्योन्यमुत्कर्षं प्राप्नुयांदित्यर्थः-गो.
  2. यतः-ङ. ज.