पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
486
[बालकाण्डः
कन्यावरणम्

 एवं भवतु, भद्रं वः, कुशध्वजसुते इमे ।
 पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ ११ ॥

 पत्न्यौ–पत्नीत्वापन्नौ । सहितौ–अश्विनाविव, रामलक्ष्मणाविव परस्परनित्यसहचरौ । क्रमादिति शेषः ॥ ११ ॥

 एकाह्ना राजपुत्रीणां चतसृणां महामुने !
 पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ १२ ॥

 एकाह्नेति । अजभाव आर्षः । सप्तम्यर्थे तृतीया । एकदिवस इति यावत् । चतसृणामिति । 'छन्दस्युभयथा' इति पक्षे दीर्घः ॥

 उत्तरे दिवसे ब्रह्मन् ! फल्गुनीभ्यां मनीषिणः ।
 वैवाहिकं प्रशंसन्ति [१]भगो यत्र प्रजापतिः ॥ १३ ॥

 उत्तर इत्यादि । फल्गुनीभ्यामुपलक्षितयोर्दिवसयोरुत्तरस्मिन्दिवसे । उत्तरफल्गुन्यामित्यर्थः । अस्य विवाहकर्मणि प्रशस्तता कुत इत्यत्र–भग इत्यादि । भगः–प्रसिद्धप्रजोत्पत्तिसाधनयोनिलिङ्गाधिष्ठाता भगवान्प्रजापतिर्यतो देवता उत्तरफल्गुन्याः, यतश्च प्रजाग्निहोत्रार्थं दारकर्म, अतः प्रजायज्ञसृक्तत्पतिभगवन्नक्षत्रत्वात् प्रशस्त्यमित्यर्थः ॥ १३ ॥

 एवमुक्त्वा वचस्सौम्यं प्रत्युत्थाय कृताञ्जलिः ।
 उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ १४ ॥
 परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा ॥ १५ ॥


  1. यत्र-ययोः भगः प्रजापतिरर्यमा च स्थितः ताभ्यां फल्गुनीभ्यां पूर्वफल्गुन्युत्तर फल्गुनीभ्यां विशिष्टयोर्दिवसयोः उत्तरे-उत्तरफल्गुनीविशिष्टे दिवसे-शि. उत्तरे-फल्गुनीभ्यां उपलक्षितयोरूत्तरस्मिन् दिवसे-उत्तर फल्गुन्यामित्यर्थः-गो.