पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२ सर्गः]
487
रामादीनां ततश्चक्रे राजा गोदानमङ्गलम्

परो धर्म इति । कन्याप्रदानधर्म इत्यर्थः । अहं भवतोः शिष्योऽस्मि । दशरथश्च सुतरामिति शेषः ॥ १५ ॥

 [१]इमान्यासनमुख्यानि [२][३]आसेतां मुनिपुङ्गवौ ।
 [४] यथा दशरथस्येयं तथाऽयोध्या पुरी मम ।
 प्रभुत्वे नास्ति सन्देहो [५]यथार्हं कर्तुमर्हथ ॥ १६ ॥

 यदेवमतः—इमानीत्यादि । मन दशरथस्य च यानि आसनमुख्यानि–सिंहासनानि तानि युवां आसेतां-व्यत्ययात्परस्मैपदे शनि प्रार्थनायां लिङि प्रथमपुरुषद्विवचनं–अधितिष्ठतामिति यावत् । राज्यत्रयमपि युष्मदीयमित्यर्थः । ननु कथं दशरथ सिंहासनं त्वया शक्यदानमित्यत्राह–यथेत्यादि । इयं मिथिला यथा दशरथस्य यथेष्टविनियोगार्हा, ऐक्यात्, एवमयोध्यापुरी च मम यथेष्टविनियोगार्हा । यदेवमतो युष्माकं [६]त्रिसिंहासनप्रभुत्वे तु नास्ति सन्देहः । अतो यथार्हं–यथोचितं प्रभुत्वकर्म अर्हथ, पूजार्थे बहुवचनम् ॥ १६ ॥

 तथा ब्रुवति वैदेहे जनके रघुनन्दनः ।
 राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १७ ॥

 हृष्ट इति । एवमैक्यवादेनेति शेषः ॥ १७ ॥


  1. इमानि-मत्समर्पितानि आसनमुख्यानि-गुरूचितासनानि-गुरुत्वादासनयोर्बद्दुत्वं, आसनबाहुल्याद्वा-चि.
  2. आसातां, आस्यतां, आस्येतां-ङ. च. ज.
  3. आसातां–पुरुषव्यत्यय आर्षः-गो.
  4. 'आत्माऽपिचायं न मम सर्वा वा पृथिवीमम' (वि. पु.) इतीदृशशानी खलु जनकः ।
  5. यथेष्टं-ङ.
  6. कुशध्वज जनक दशरथाः-त्रयः ।