पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
488
[बालकाण्डः
कन्यावरणम्

 युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
 ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजितः ॥ १८ ॥

 महद्विषये समग्रसत्कारो युष्माकं कुलधर्मः इति नायमपूर्वोऽर्थ इति दशरथः स्तौति— युवामित्यादि ॥ १८ ॥

 [१]स्वस्ति प्राप्नुहि, भद्रं ते, गमिष्यामि स्वमालयम् ।
 श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ १९ ॥
 [२]तमापृच्छ्य नरपतिं राजा दशरथस्तदा ।
 मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ २० ॥

 आपृच्छ्य-आभाष्य ॥ २० ॥

 स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
 प्रभाते [३]काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ २१ ॥

 निश्चयं–चतुर्णां विवाहनिश्चयं । काल्यं–प्रातः कालार्हं । गोदानं व्याकृतं । समावर्तनमिति यावत् ॥ २१ ॥

 गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
 [४]एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ २२ ॥
 [५]सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः ।
 गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ २३ ॥


  1. क्षत्रियत्वेऽपि प्रतिग्रहीतृत्वात् दातरि जनके आशीः-ति. त्वं स्वस्ति प्राप्नुहिस्वसुतादानेन मङ्गलं प्रापय, अन्तर्भावितणिजर्धः-शि.
  2. तमापृष्ट्वा
  3. काव्यं-मङ्गलं गोदानमिति केचित्.-झ.
  4. एकैकश इत्यार्षम्-ति । एकैकशः पुत्रानुद्दिश्य–' उक्तार्थानां ' इति न्यायाप्रवृत्तिस्तु ‘ द्वौ ब्राह्मणौ' इत्यादाविव 'द्विर्बद्धं सुबद्धं भवति' इति स्वीकारात । अर्ष इत्युक्तिस्तु तदविचारमूला-शि ।
  5. सुवर्णशृङ्ग्यः-ड..