पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३ सर्गः]
489
तदाऽऽगच्छत् युधाजिच्च साक्षाद्भरतमातुलः

 तदङ्गत्वेन प्रसिद्धगोदानम्-गवां शतेत्यादि । कांस्यदोहना इति बहुव्रीहिः । अधिकरणे ल्युट् । कंसीयस्य विकाराणि, 'कंसीय-परशव्ययोर्यञञौ लुक् च' इति यञ् । सन्नियोगप्राचीनप्रत्ययस्य लुक् । शतसहस्रं-लक्षम् ॥ २३ ॥

 वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः ।
 ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ २४ ॥
 स सुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा ।
 लोकपालैरिवाभाति वृतः[१] सौम्यः प्रजापतिः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विसप्ततितमः सर्गः


 सौम्यः-सोममण्डलाधिष्ठातृदेवता । 'सोमाट्ट्यण् । मख (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विसप्ततितमः सर्गः



अथ त्रिसप्ततितमः सर्गः
[सीतादीनां विवाहः]

 यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।
 तस्मिंस्तु दिवसे शूरो युधाजित्त्वभ्युपेयिवान् ॥ १ ॥

 अथ संप्राप्तसर्वबन्धुकस्य दशरथस्य सुतविवाहकर्मनिर्वृत्तिः-यस्मिन्नित्यादि । अभ्युपेयिवानिति । दशरथमिति शेषः ॥ १ ॥


  1. सोम इव सोम्यः, सोम्य एव सौम्यः-ति. सौम्यः-सोमः प्रजापतिरिव-सोमशब्दः स्वार्थष्यञन्तः-शि. सौम्यः-सुप्रसन्नचित्तः-गो.