पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
490
[बालकाण्डः
सीतादीनां विवाहः

 पुत्रः [१]केकयराजस्य साक्षाद्भरतमातुलः ।
 दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ २ ॥
 केकयाधिपती राजा स्नेहात् कुशल[२]मब्रवीत् ।
 येषां कुशलकामोऽसि तेषां संप्रत्य नामयम् ॥ ३ ॥

 स्नेहात्कुशलमब्रवीदिति । युष्मान् प्रतीति शेषः । अपि च येषां-अस्माकं त्वं कुशलकामोऽसि तेषां अस्माकपि संप्रत्यनामयमिति चाब्रवीत् ॥ ३ ॥

 [३]स्त्रीयं मम, राजेन्द्र ! द्रष्टुकामो महीपतिः ।
 तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ! ॥ ४ ॥
 श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।
 मिथिलामुपयातांस्तु त्वया सह महीपते !
 [४]त्वरयाऽभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् ॥ ५ ॥

 स्वसुरपत्यं [५]स्वस्त्रीयः । 'स्वसुश्छः' । त्वरयाऽभ्युपयातोऽस्मि, साऽयमयोध्यायामदृष्ट्वेह द्रष्टुकाम उपयातोऽस्मीति योजना । उपयात इति कर्तरि निष्ठा ॥ ५ ॥

 अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।
 दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ॥ ६ ॥


  1. कैकय-ङ.
  2. अब्रवीत्-अपृच्छदित्यर्थः
  3. मम स्वस्रीयं-भरतं द्रष्टुकामः महीपतिः केकयराजो वर्तते । अतः भरतनयनायाहमुपयात इत्यर्थः । अयोध्यायां तु तवात्मजान्स्व विवाहार्थं त्वया सह मिथिलामुपयातान् श्रुत्वा त्वरयाऽत्राभ्युपयात इत्यन्वयः ॥
  4. एतदनन्तरं-तस्य त्वं राजशार्दूल प्रीतिं कर्तुमिहार्हसि । तस्य तद्वचनं श्रुत्वा मधुरं मधुराक्षरम् । इत्यधिकं-ङ.
  5. भरत इत्यर्थः