पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३ सर्गः]
491
ततः पुत्रैर्दशरथो यज्ञशालामुपागमत्

 ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ।
 प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ॥ ७ ॥
 ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ।

 यज्ञवाटं-यज्ञशालां । उपागमदिति । तत्समीपं प्राप्तवानित्यर्थः । प्रवेशो जनकानुमत्याऽग्रे भविष्यति ॥ ७ ॥

 युक्ते मुहूर्ते विजये सर्वाभरण[१]भूषितैः ॥ ८ ॥
 भ्रातृभिस्साहितो रामः कृतकौतुकमङ्गलः ।
 [२]वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ॥ ९ ॥

 युक्ते-शुभलग्नादिगुणयुक्ते, विजये–[३]विजयप्रदे, विजया[४]ख्ये च । पुरतः कृत्वा उपागमदित्यनुकर्षः ॥ ९ ॥

 वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ।

 भगवानेत्येत्यादि । यज्ञवाटान्तर्वर्तिनमिति शेषः ॥ ९ ॥

 राजा दशरथो राजन् ! कृतकौतुकमङ्गलैः ॥ १० ॥
 पुत्रैर्नरवर[५] श्रेष्ठ ! दातारमभिकाङ्क्षते ।

 कृतेति। कृतकौतुकसूत्रधारणरूपाणि मङ्गळानि यैस्ते तथा । दातारं, त्वामिति शेषः ॥ १० ॥

 दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ॥ ११ ॥
 स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ।


  1. भूषितः-ङ.
  2. एतदनन्तरं 'पितुस्समीपमाश्रित्य तस्थौ भ्रातृभिरावृतः'
    इत्यधिकं ङ.
  3. विजयप्रदे न तु विजयाख्ये; तस्थापराह्निकत्वात् ।-गो.
  4. र्थे-क.
  5. श्रेष्ठैः-ङ.