पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
492
[बालकाण्डः
सीतादीनां विवाहः

 दातृप्रतिग्रहीतृभ्यामिति । योग इति शेषः । सर्वार्थाः-दान-धर्मादयः । हि-यस्मादेवं तस्मात् स्वसाध्यो धर्मो दानरूपः । विवाहो-पयुक्तं कर्म लौकिकालौकिकं-वैवाह्यं । ष्यञ् छान्दसः ॥ ११ ॥

 इत्युक्तः परमोदारो वसिष्ठेन महात्मना ॥ १२ ॥
 प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ।

 परमोदारः-परमदाता ॥ १२ ॥

 कः स्थितः [१]प्रतिहारो मे कस्याज्ञा सम्प्रती[२]क्ष्यते ॥ १३ ॥
 स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ।

 कः स्थित इति । कः प्रतिहारः स्थितः । येन द्राग्गमनं परिहियत इति शेषः । अपि चागत्य वा कस्याज्ञा संप्रतीक्ष्यते । कुत एवमित्यतः-स्वगृह इत्यादि । स्वगृहत्वमेव कथमित्यतः-यथेत्यादि । इमान्यासनमुख्यानि आसेतामिति यथोक्तरीत्या इदं राज्यमेव तव । स्वगृहे मम गृहमात्रस्वीयत्वे को विचार इत्यर्थः ॥ १३ ॥

 कृतकौतुक सर्वस्वा वेदिमूलमुपागताः ॥ १४ ॥
 मम कन्या मुनिश्रेष्ठ ! दीप्ता वह्नेरिवार्चिषः ।

 अपि च कृतस्वकर्तव्येन मयैव युष्मत्प्रतीक्षा क्रियत इत्याहकृतेत्यादि । कृतं कौतुकसर्वस्वं -वैवाहिककृत्स्नमंगळानुष्ठानं याभिस्तास्तथा। वेदिमूलं-यज्ञवेदिसमीपं ॥ १४ ॥


  1. प्रतिहारः-द्वारपालः-गो.
  2. क्षते-ङ.ज.