पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३ सर्गः]
493
वसिष्ठस्त्वकरोत् सर्वं विधिवन्मन्त्रपूर्वकम्

 [१]सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ॥ १५ ॥
 [२]अविघ्नं कुरुतां राजा [३]किमर्थमवलम्बते ।

 आविघ्नं-अविळम्बं यथा तथा कुरुताम्, विवाहकर्मेति शेषः । अवलम्बते-विळम्बते । द्वारावस्थानेनेति शेषः ॥ १५ ॥

 तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ॥ १६ ॥
 [४]प्रवेशयामास सुतान् सर्वानृषिगणानपि ।

 श्रुत्वेति । वसिष्ठमुखादिति शेषः ॥ १६ ॥

 ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ॥ १७ ॥
 कारयस्व ऋषे ! सर्वामृषिभिः सह धार्मिक !
 [५]रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ! ॥ १८ ॥

 लोका रमन्ते अस्मिन्निति लोकरामः ॥ २३ ॥

 तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ।
 विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ १९ ॥


  1. सद्योऽहं-ङ.
  2. अविघ्नंकुरुतां ब्रह्मन्-ङ.
  3. किमर्थं हि विलम्ब्यते-ङ.
  4. एतदनन्तरं-'विश्वामित्रो महातेजा विदेहाधिपतेः करम् । कुशध्वजस्य हस्तं च वसिष्ठो भगवानृषिः । गृहीत्वा प्राविशच्छिष्यैः सहितौ द्विजपुङ्गवो ॥ अथ राजा दशरथः पुत्रैः स्त्रीभिश्च संवृतः । सर्वानृषीन् पुरस्कृत्य प्रविवेश महाद्युतिः ॥ प्रवेश्यमानं राजानं वसिष्ठं गाधिनः सुतम् । सर्वान्नृपवरान् विप्रान् जनको धर्मवत्सलः ॥ वस्त्रैभरणैश्चैव गन्धपुष्पैश्च साक्षतैः । पूजयामास विधिवद्यथायोग्यं यथाक्रमम् ॥ इत्यधिकं क्वचित्-ङ.
  5. एतदनन्तरं-त्वया न विदितं किंचित् नास्ति ब्रह्मविदां वर !। तस्मास्वमेवजह्मर्षे ! अशेषं कर्तुमर्हसि ॥ इत्यधिकं-ङ.