पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
494
[बालकाण्डः
सीतादीनां विवाहः

 [१]प्रपामध्ये तु विधिवत् वेदिं कृत्वा महातपाः ।
 अलंचकार तां वेदिं गंधपुष्पैः समन्ततः ॥ २० ॥

 प्रपामध्ये । यज्ञशालामध्य इत्यर्थः । वेदिं-विवाहवेदिम् ॥ २० ॥

 सुवर्णपालिकाभि[२]श्चा [३]छिद्रकुम्भैश्च साङ्कुरैः ।
 अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ॥ २१ ॥

 सुवर्णपालिकाभिरिति । साङ्कुराभिरित्याकर्षः । तथा साङ्कुरैः आच्छिद्रकुम्भैः–अच्छिद्रमष्टापदं स्फुटनादिदोषरहितम् ; स्वर्णकुम्भैरित्यर्थः ॥ २१ ॥

 शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्यादिपूरितैः ।
 लाजपूर्णैश्च पात्रीभिरक्षतै[४]रभिसंस्कृतैः ॥ २२ ॥

 अर्घ्यादिपूरितैरिति भावे निष्ठा । अर्घ्यादिदेवपूजाप्रयोजनैरित्यर्थः । अभिसंस्कृतैरिति । हरिद्रालेपनादिसंस्कारवद्भिरित्यर्थः ॥

 दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ।
 अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।
 जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ॥ २३ ॥

 समैः-समप्रमाणैः। समास्तीर्येति । प्रागुक्तविशेषणैरुपलक्षितां वेदिमिति शेषः। विधिना-कल्पोक्तक्रियाकलापेन मन्त्रैश्च पुरस्कृतं तथा । विवाहहीमादीनां वरकृत्यत्वात् तत्पुरोहितो वसिष्ठ एव जुहावेति ॥


  1. सभामध्ये-ङ.
  2. श्च छिद्र-श्च जल-ङ. चित्र-ज
  3. छिद्रकुंभैः-करकैः गो-ति- चित्रकुंभैः-नानावर्णयुक्तकुंभेः-ति.
  4. रपि सं-ङ.