पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३ सर्गः]
495
शुभे मुहुर्ते सीतायाः पाणिं जग्राह राघवः

 [१]ततः सीतां समानीय सर्वाभरणभूषिताम् ।
 समक्षमग्नेः संस्थाप्य [२]राघवाभिमुखे तदा ।
 अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ॥ २४ ॥

 अग्नेस्समक्षं राघवाभिमुखे-राघवपुरः प्रदेशे । नन्दः-हर्षः ॥

 इयं सीता मम सुता सहधर्मचरी तव ।
 प्रतीच्छ चैनां, भद्रं ते,[३]पाणिं गृह्णीष्व पाणिना ॥ २५ ॥

 धर्म चरतीति धर्मचरी । 'चरेष्टः' इति टः, टित्वात् डीपू, प्रतीच्छ-प्रतिगृहाण, तदर्थं पाणिना पाणिं गृह्णीष्व ॥ २५ ॥

 पतिव्रता महाभागा छायेवानुगता [४]सदा ।
 [५]इत्युक्त्वा प्राक्षिपद्राजा [६]मन्त्रपूतं जलं तदा ॥ २६ ॥

 कल्पोक्तकन्यादानमन्त्रेण पूतं जलं प्राक्षिपत्, रामहस्त इति शेषः ॥ २६ ॥

 साधु साध्विति देवानां ऋषीणां वदतां तदा ।
 देवदुन्दुभि[७]निर्घोषः पुष्पवर्षो महानभूत् ॥ २८ ॥

 वदतामिति भावलक्षणे षष्ठी, वदत्स्विति यावत् ॥ २७ ॥

 एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ।
 अब्रवीञ्जनको राजा हर्षेणाभिपरिप्लुतः ॥ २८ ॥


  1. एतदनन्तरं–पद्मां पद्मवियुक्तां वै केशवाङ्कच्युतामिव विद्युत्प्रभां विशालाक्षीं स्निग्धकुञ्चितमूर्धजाम् । हंसाङ्कितेन क्षौमेण किञ्चित्पीतेन संवृताम् । वासितेनोत्तरीयेण सुरक्तेन सुसंवृताम्' इत्यधिकं-ङ.
  2. राघवाभिमुखी-ङ.
  3. ब्राह्मणस्यैव पाणिग्रहणं, क्षत्रियादेः शरादिग्रहणं विहितं । अतः कथमिदं इति न शङ्कनीयम् । तस्यासवर्णविषयत्वात् । आह च मनुः-पाणिग्रहणसंस्कारः सवर्णासु प्रशस्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासोदशा शूद्रया तु इति ।-गो.
  4. तव-ङ.
  5. एतदनन्तरं 'प्रक्षिप्ते सलिले भूमौ गगने चोत्थिताः स्वनाः इत्यधिकं-ङ.
  6. मन्त्रपूर्वं-ङ.
  7. निर्घोषैः-ङ.