पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
496
[बालकाण्डः
सीतादीनां विवाहः

 मन्त्रेति । दानीयमन्त्रोदकाभ्यां पुरस्कृतां, दानशेषतयेति शेषः ॥

 लक्ष्मणागच्छ, भद्रं ते, [१]ऊर्मिळामुद्यतां मया ।
 प्रतीच्छ पाणिं गृह्णीष्व, मा भूत् [२]कालस्य [३]पर्ययः ॥२९॥

 उद्यतां-दातुं कृतोद्योगां । अत्र ज्येष्ठात् भरतात् पूर्वं लक्ष्मणपरिग्रहस्तु भिन्नोदरत्वात् । 'पितृव्यपुत्रे सापत्ने परनारीसुतेषु च। विवाह-दानयज्ञादौ परिवेत्त्राद्यदूषणम्' इति स्मरणाददोषः । तदपि स्वसुता-प्रदानम्, अनन्तरमेव कनिष्ठसुतयोः प्रदातव्यत्वात् ॥ २९ ॥

 तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।
 गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ ३० ॥
 शत्रुघ्नं चापि धर्मात्मा अ[४]अब्रवी[५]ज्जनकेश्वरः ।
 [६]श्रुतकीर्त्या महाबाहो ! पाणिं गृह्णीष्व पाणिना ॥ ३१ ॥
 सर्वे भवन्तस्सौम्याच सर्वे सुचरितव्रताः ।
 पत्नीभिस्सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः ॥ ३२ ॥

 सुचरितव्रता इति । स्वनुष्ठितब्रह्मचर्यव्रता इत्यर्थः । पत्नीभिः सहिताः सन्त्विति योजना ॥ ३२ ॥

 जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्
 चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः ॥ ३३ ॥
 अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।


  1. ऊर्मिलां च ममात्मजां-ङ.
  2. कालविपर्ययः-ङ.
  3. पर्ययः-विलम्बः ।
  4. सन्धिरार्षः ।
  5. न्मिथिलेश्वरः-ङ.
  6. श्रुतकीर्तेर्महा-ङ.