ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।
[१]यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥ ३४ ॥
वेदिं-पालिकाद्युपलक्षितवेदिं । राजा-जनकः । यथोक्तेनेति । रामलक्ष्मणभरतशत्रुघ्नलक्षणक्रमेणेत्यर्थः ॥ ३४ ॥
पुष्पवृष्टिर्महत्यासीत् अन्तरिक्षात्सुभास्वरा ।
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥३५॥
ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥३६॥
तदद्भुतमिति । पुष्पवृष्ट्यादिकमित्यर्थः ॥३६॥
ईदृशे वर्तमाने तु तूर्योद्धुष्टाननादिते ।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ ३७ ॥
तूर्याणां घुष्टैः-घोषैः निनादितं-तथा-तादृशकाल इत्यर्थः । [२]अविशब्दनत्वात् 'घुषिरविशब्दने' इति नेट् । त्रिरग्निमित्यादिः उपसंहारेण वादः ॥ ३७ ॥
[३]अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः |
राजाऽप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिसप्ततितमस्सर्गः
पश्यन्निति । वधूवरसंसर्गकल्याणमिति शेषः । दण्ड (३८)मानः सर्गः ॥ ३८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिसप्ततितमः सर्गः