पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
498
[बालकाण्डः
परशुरामाभियोगः

अथ चतुस्सप्ततितमः सर्गः
[परशुरामाभियोगः]

 अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
 [१]आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥ १ ॥

 अथ भार्गवगतिहरणरूपश्रीरामदिव्यचरितवर्णनशेषतया भार्गवप्रादुर्भाववर्णनं प्रतिप्रयाणसमये । अथेत्यादि । आपृष्ट्वा-आपृच्छ्येति यावत् । उत्तरपर्वतं-पूर्वमेवाध्यासिषितकौशिकीप्रदेशीयमिति शेषः ॥ १॥

 विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
 [२]आपृष्ट्वाऽथ जगामाशु राजा दशरथः पुरीम् ॥ २ ॥
 अथ राजा विदेहानां ददौ कन्याधनं बहु ।
 गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥ ३ ॥
 कम्बलानां च मुख्यानां [३]क्षौमान् [४]कोट्यम्बराणि च ।

 कन्याधनं बहु ददावित्यस्यैव प्रपञ्चनम्-गवामित्यादि । मुख्यानां कम्बळानां-रत्नकम्बळानां बहुनीति योजना । क्षौमान् बहूनिति विपरिणामः । पुंस्यप्यस्ति क्षौमः । कोट्यम्बराणि कोटिसङ्ख्याकानि सामान्यप्रच्छदपटानि ॥ ३ ॥

 हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ॥ ४ ॥
 ददौ कन्यापिता तासां दासीदासमनुत्तमम् ।

 हस्तीत्यादि । सेनाङ्गत्वादेकत्वम् । तासामिति । राजकुमारीणामित्यर्थः । कन्याशतदानं अन्तरङ्गपाकादिव्यवहाराय । दासीदासदानं जलाहरणावहननादिबाह्यव्यापाराय ।गवाश्वादित्वादेकत्वम् ॥ ४ ॥


  1. अपृच्छयाथ च-ङ. ज. एतदनन्तरं 'आशीभिः पूरयित्वा च कुमारांश्च सराघवान् ।' इत्यधिकं-ङ.
  2. एतदनन्तरं 'गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः' ।
    इत्यधिकं ङ.
  3. क्षौमकोट्यम्बराणि-ङ. ज.
  4. कोट्यम्बराणि-उत्कृष्टवस्त्राणि वा-गो.