पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४ सर्गः]
499
ततः पुत्रैः स्नुषाभिश्चायोध्या दशरथो ययौ

 हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ ५ ॥
 ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।

 हिरण्यमिति रजतं । पूर्वमेव (३०३ पुटे) तथा प्रतिपादितम् ॥५॥

 दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् ॥ ६ ॥
 प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।

 पार्थिवं-दशरथं ॥ ६ ॥

 राजाऽप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः ॥ ७ ॥
 [१]ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।

 बलैः-चतुरङ्गैः, अनुगैः किंकरैश्च सहितस्तथा ॥ ७ ॥

 गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥ ८ ॥
 घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।

 गच्छन्तं दशरथं इति शेषः । पक्षिणः करटादयः ॥ ८ ॥

 भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ ९ ॥

 एवमान्तरिक्षं दुर्निमित्तम् । अथ भौमं मृगप्रदक्षिणगमनं सुनिमित्तम्-भौमा इत्यादि ॥ ९ ॥

 तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।
 असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥ १० ॥
 किमिदं हृदयोत्कंपि ? मनो मम विषीदति ।

 तान्-शुभाशुभनिमित्तविशेषान् । हृदयं उत्कंपयितुं शीलमस्येति हृदयोत्कंपि इदं किमिति । दुःखोदर्कं सुखोदर्कं वा भविष्यतीति मे मनो विषीदति । अशक्यनिश्चयादिति शेषः ॥ १० ॥


  1. एतदनन्तरं 'वाहिनीं महतीं कर्षन् कीर्तिमांश्च ययौ तदा ।' इत्यधिकं-ङ.