पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
500
[बालकाण्डः
परशुरामाभियोगः

 राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ॥ ११ ॥
 उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ।
 उपस्थितं भयं घोरं [१]दिव्यं पक्षिमुखाच्च्युतम् ॥ १२ ॥
 मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ।

 दिवि-खे भवं दिव्यं । तत्पक्षिमुखात् च्युतं वचनं घोरं भयमावेदयतीति शेषः। प्रशमयन्तीति । प्रशमं सूचयन्तीत्यर्थः ॥ १२ ॥

 [२]तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥ १३ ॥
 कम्पयन् पृथिवीं सर्वां पातयंश्च [३]द्रुमान् शुभान् ।

 संवदतां -भावलक्षणषष्ठी ॥ १३ ॥

 तमसा संवृतः सूर्यः [४]सर्वा न प्रबभुर्दिशः ॥ १४॥
 भस्मना चावृतं सर्वं संमूढमिव तद्वलम् ।

 तमो भस्म चोभयमप्युत्पातजम् ॥ १४ ॥

 [५]वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ॥१५॥
 [६]ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।

 ससंज्ञाः-इवेति एवार्थे । राजा चैवेति योजना ॥ १५ ॥

 तस्मिंस्तमास घोरे तु भस्मच्छन्नेव सा चमूः ॥ १६ ॥
 ददर्श [७]भीमसंकाशं जटामण्डलधारिणम् ।

 भस्मच्छन्नेव-छन्नैवेति यावत् । मीमसंकाशं -भयङ्करदर्शनम् ॥


  1. दिव्यपक्षि-ड.
  2. तेषां संवदतामित्यत्र पुर इति शेषः-सि. दशरथादिषु संवदत्सु- गो. शि.
  3. महाद्रुमान्-ड.
  4. सर्वे नावेदिषुर्दिशः-ङ. ज.
  5. वसिष्ठः, अन्ये ऋषयश्च, राजा च सशङ्का इवासन्–अन्यत्सर्वं विचेतनमास-शि. ससंज्ञा इव-ईषत्संज्ञाः । अन्यत्तु बलं निस्संशमेव ।
  6. सशङ्का-ज.विसंज्ञा-ङ.
  7. हिमसंकाशं-ङ.