पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४ सर्गः]
501
मार्गे परशुरामस्तु समागच्छत् सुदुस्सहः

 भार्गवं जामदग्न्यं तं [१]राजराजविमर्दनम् ॥ १७ ॥
 कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ।

 कैलासमिवेति । अनेन महाकारत्वमुक्तं । दुर्धर्षं-अशक्याति- क्रमम् ॥१७॥

 ज्वलन्तमिव तेजोभिर्दुर्निरीक्षं पृथग्जनैः ॥ १८ ॥
 स्कन्धे [२]चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।
 प्रगृह्य [३]शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥ १९ ॥

 पृथग्जनः-पामरजनः । विद्युद्गणोपमत्वं प्रभातिशयवत्त्वे दृष्टान्तः । त्रिपुरघ्नं यथा-रुद्रमिव स्थितमित्यर्थः ।‘अमनुष्यकर्तृके च' इति हन्तेष्टक् ॥ १९ ॥

 [४]तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।
 वसिष्ठप्रमुखा विप्रा [५]जपहोमपरायणाः ॥ २० ॥

 जपहोमेति । यद्यपि तत्काले न समस्ति मुख्यहोमः, अथापि अपाने जुह्वति प्राणम्' इत्याद्युपदिष्टो गौणः ॥२०॥

 संगता मुनयः सर्वे संजजल्पुरथो मिथः ।
 कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ २१ ॥

 कच्चिदिति विमर्शः ॥ २१ ॥


  1. राजा-ङ. ज.
  2. चासज्य-ङ. ज.
  3. शरमुग्रं-ङ.ज.
  4. एतदनन्तरं यथा कृष्णगतिं घोरं युगान्ते प्रोद्यतं तथा । इत्यधिकम् -ङ
  5. होमः मानसः-गो. जपहोमपरायणत्वमुपलक्षणम् । अतएवाग्रे संजजल्पुरिति सङ्गच्छते । अन्यथा तादृशहोमादिपरायणानां जलासंभवादित्याहुः-ति. परंतु 'संजजल्पुरथो मिथः' इत्यत्र अथशब्द स्वारस्यान्न विरोधः । प्रथमं शान्त्यर्थं जपादिकं किञ्चित्कृत्वा ततः संजजरुपुरित्यर्थः ॥