पुटमेतत् सुपुष्टितम्
502
[बालकाण्डः
वैष्णवधनुःप्रशंसा
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २२ ॥
एवमुक्त्वाऽर्घ्यमादाय भार्गवं भीमदर्शनम् ।
ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ २३ ॥
प्रतिगृह्य तु तां पूजां ऋषिदत्तां प्रतापवान् ।
[१]रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्सप्ततितमः सर्गः
घोर (२४) मानः सर्गः ॥ २४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुस्सप्ततितमः सर्गः
अथ पञ्चसप्ततितमः सर्गः
[वैष्णवधनुः प्रशंसा]
राम ! दशरथे ! राम ! वीर्यं ते श्रूयतेऽद्भुतम् ।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥
अथ जामदग्न्यस्य रामाभियानम्-रामेत्यादि । निखिलेन-कार्त्स्न्येन ॥ १ ॥
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।
तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ॥ २ ॥
- ↑ एतदनन्तरं तस्मिंस्तु घोरे जमदग्निसूनुना त्वासादिते राममभि प्रकोपे ॥ दृढं नरेन्द्रस्य बलं महाबलं भयं प्रविष्टं च विषादितं च ॥ इत्यधिकं-ङ.