पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५ सर्गः]
503
स्कन्धे चासज्य परशुं गृहीत्वा वैष्णवं धनुः

 यत्त्वया धनुषो भेदनं कृतं तदद्भुतमचिन्त्यं च भवत्येव । अतः-तच्छ्रुत्वेत्यादि । गृह्य-गृहीत्वा ॥ २ ॥

 तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः ।
 पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥३॥

 जामदग्न्यं -जमदग्नेस्स्वपितुरागतं । आगतार्थे ष्यञ् आर्षः ॥ ३ ॥

 तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।
 [१]द्वन्द्वयुद्धं प्रदास्यामि वीर्य[२]श्लाघ्यमहं तव ॥ ४ ॥

 प्रपूरणं प्रागुक्तार्थं । वीर्यवद्भिः श्लाघ्यं वीर्यश्लाघ्यं ॥ ४ ॥

 तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।
 [३]विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥५॥

 तद्वचनं । द्वन्द्वयुद्धवचनमित्यर्थः ॥ ५ ॥

 क्षत्त्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।
 बालानां मम पुत्राणां अभयं दातुमर्हसि ॥६॥

 क्षत्त्ररोषादिति । तज्ज[४]क्षत्त्रवधादित्यर्थः ॥ ६ ॥

 भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
 सहास्राक्षे प्रतिज्ञाय । [५]शस्त्रं निक्षिप्तवानसि ॥ ७ ॥


  1. एतदनन्तरं 'भीतो यदि धनुस्त्यक्ता निर्जितोऽस्मीति वा वद' इत्यधिकं-ङ. झ.
  2. श्लाघ्यस्य राघवः-ङ.ज.
  3. अदीन-त्रैकालिकदीनताभावविशिष्टः, विषण्णवदनः-उदासीनचित्तः-शि.
  4. क्षत्रिय-घ.
  5. ब्रह्माण्डपुराणे (3.47) परशुरामः स्वपितॄणां वचनात् शस्त्रं निक्षिप्तवानिति वर्तते । महाभारते तु (वन. 117) ऋचीकनियमनादिति वर्तते । अत्र तु इन्द्रनियमनादिति । अतः स्वपितॄणां देवानां च सन्निधौ-इति विरोधः परिहरणीयः । तत्र चेन्द्रस्य प्रधान्यादत्र तस्य निर्देश इति ।