पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
504
[बालकाण्डः
वैष्णवधनुःप्रशंसा

 सहस्राक्ष इति । तत्सन्निधावित्यर्थः । प्रतिज्ञायेति । अतः परं शस्त्रं न ग्रहीष्यामीत्येवमिति शेषः । निक्षिप्तवान् । त्यक्तवानिति यावत् ॥ ७ ॥

 स त्वं धर्मपरो भूत्वा कश्यपाय वसुन्धराम् ।
 दत्त्वा वनमुपागम्य [१]महेन्द्रकृतकेतनः ॥ ८ ॥

 स त्वं-तथात्यक्तशस्त्रस्त्वं ॥ ८ ॥

 मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।
 [२]न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ ९ ॥

 मम सर्वविनाशायेति योजना। कुतस्सर्वविनाशनप्रसंग इत्यतः न चेत्यादि ॥ ९ ॥

 ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।
 [३]अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १० ॥
 इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते।
 [४]दृढे बलवती मुख्ये [५]सुकृते विश्वकर्मणा ॥ ११ ॥

 इमे द्वे धनुषी इति । वक्ष्ममाणलक्षणे दृढे स्थिरे बलवती क्षतक्षमे इति यावत् ॥ ११ ॥

 [६][७]अतिसृष्टं! सुरैरेकं त्र्यम्बकाय युयुत्सवे ।
 [८]त्रिपुरघ्नं [९]नरश्रेष्ठ! भग्नं काकुत्स्थ! यत्त्वया ॥ १२ ॥


  1. महेन्द्रः-महेन्द्रपर्वतः.
  2. नचैतस्मिन्-ङ.
  3. एतदनन्तरं 'रोषात्प्रस्फुरमाणोष्ठो रामं परमधन्विनम् ।' इत्यधिकं-ङ
  4. एतदनन्तरं 'करवीरसमे गन्धे विशाले विमले शुभे' इत्यदिक-ङ.
  5. विश्वकर्मणा सुकृते-सुष्टु निर्मिते.
  6. अनुसृष्टं-ङ. ज.
  7. अतिसृष्टं-दत्तम् । तदा-दुष्करत्रिपुरहननानन्तरकाले-गो.
  8. एतदनन्तरं-इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः इत्यधिक-ङ ज.
  9. धनुःश्रेष्ठं-ङ.