पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७ सर्गः]
471
तदैव जनकभ्राताऽप्याजगाम कुशध्वजः

 अथ स्वस्वबन्धुभावरहितयोः यौनसम्बन्धापेक्षितः परस्पर-कुलविचारः सर्गाभ्यां-ततः प्रभात इत्यादि ॥ १ ॥

 भ्राता मम महातेजा [१]यवीयानतिधार्मिकः ।
 कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥
 [२][३]वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।
 साङ्काश्यां [४]पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ ३ ॥

 पुरीमध्यवसदिति । पुर्यामिति यावत् । 'उपान्वध्याङ्वसः' इत्याधारस्य कर्मत्वम् । परबलं वारयितुं अर्हा-वार्या 'ॠहलोर्ण्यत्'-प्राकार इति यावत् तस्याः फलकाः-यन्त्रफलकाः, तद्युक्तः पर्यन्तः-परिसरो यस्यास्सा तथा । एतेन स्थलदुर्गत्वं पुर्या उक्तं । अथ जलदुर्गत्वमप्युच्यते-वार्येत्यादि । आवर्तते चेदं पदं, उक्तार्थवार्या-फलकपरिसरप्रवाहवतीं इक्षुमतीं नदीं-तज्जलं पिबन्, सांकाश्यां-संकाशेन निर्वृत्ता सांकाश्या, वुञ्छणादितो ण्यः । पुण्यसंकाशां-शुभदर्शनां । पुष्पकविमानं प्रसिद्धं कौबेरं ॥ ३ ॥

 तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।
 [५]प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ ४ ॥

 तमिति। उक्तपुरवासिनमिति यावत् । यज्ञगोप्तेति। मिथिलायां क्रियमाणयज्ञस्य रक्षणं-साङ्काश्य एव स्थित्वाऽस्मद्यज्ञापेक्षितसर्व-


  1. वीर्यवान्-ङ. ज.
  2. वारिणि आ कीर्णाः-निखाताः फलकाः शूलानि येषु ते वार्याफलंकाः, तादृशाः पर्यन्तप्रदेशाः यस्यास्तां । 'बार्यामलक' इति पाठे वार्यामलकाः-आमलकविशेषाः ।
  3. वार्यामलक-ङ. ज.
  4. पुण्यशब्देन तत्फलं स्वर्गः-तत्सङ्काशां-ति । पुण्यतुल्यां---स्ववासिनां पुण्यवत् स्वत एवाभीष्टप्रदां-गो.
  5. एतदनन्तरं-एवमुक्ते तु वचने शतानन्दस्य सन्निधौ । आगताः केचिदव्यमाः जनकस्तान् समादिशत्-इत्यधिकं-ङ.