पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
470
[बालकाण्डः
इक्ष्वाकुवंशवर्णनम्

 ततः सर्वे मुनिगणाः परस्परसमागमे ।
 [१]हर्षेण महता युक्तास्तां निशामवसन् सुखम् ॥ १६ ॥
 राजा च राघवौ पुत्रौ निशम्य परिहर्षितः ।
 उवास परमप्रीतो जनकेनाभिपूजितः ॥ १७ ॥

 निशम्य-अवलोक्य, 'शमो दर्शने' इति दर्शने मित्वनिषेधाद्ध्रस्वः ॥ १७ ॥

 जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् ।
 यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनसप्ततितमः सर्गः

 यज्ञस्य अवशिष्टाः क्रियाः, सुताभ्यां कन्यादानशेषतया यत्कर्तव्यं लौकिकालौकिकं तत्सर्वं च क्रुत्वेवास इति । अदय (१८१/२) मानः सर्गः ॥ १८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनसप्ततितमः सर्गः

अथ सप्ततितमः सर्गः
[ इक्ष्वाकुवंशवर्णनम् ]

 ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
 उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥


  1. एतदनन्तरं-अथ रामो महातेजा लक्ष्मणेन सम ययौ । विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन् ॥ इत्यधिकं-ङ.