सामग्रीसम्पादकत्वात् । इमां प्रीतीं-विवाहकल्याणसन्तोषं मया सह भोक्तुमर्हति । अतस्तदानयनं कारयत्विति शतानन्दमुवाचेति योजना ॥
शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।
[१]समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ ५ ॥
एवं नरेन्द्रस्य-जनकस्य शासनात् शतानन्दप्रेषिताः प्रययुः । दूता इति शेषः । विष्णुः-उपेन्द्रः ॥ ५ ॥
अज्ञायाऽथ नरेन्द्रस्य आजगाम कुशध्वजः ।
स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ ६ ॥
अभिवाद्य शतानन्दं राजानं चापि धार्मिकम् ।
राजार्हं परमं दिव्यमासनं सोऽध्यरोहत ॥ ७ ॥
सोऽध्यरोहतेति। पुरोहितज्येष्ठानुमत्येति शेषः ॥ ७ ॥
उपविष्टावुभौ तौ तु आवरावतितेजसौ ।
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ॥ ८ ॥
गच्छ मन्त्रिपते ! शीघ्रमैक्ष्वाकममितप्रभम् ।
आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥
सुदामनं क्व प्रेषयामासतुरित्यतः-गच्छेत्यादि ॥ ९ ॥
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ।
ददर्श, शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥
औपकार्यामिति । उपकर्याशब्दात् स्वार्थे ष्यञ् । दशरथशिबिरसन्निवेशमित्यर्थः ॥ १० ॥
- ↑ 'एतदनन्तरं 'सांकाइयां ते समागत्य ददृशुश्च कुशध्वजम् । न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम् ॥ तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाबलैः ॥ इत्यधिकं–ङ ।