पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१ सर्गः
377]
कदाचित्तु ससैन्यः स परिचक्राम मेदिनीम्

 कदाचित्तु महातेजाः योजयित्वा वरूथिनीम् ।
 अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ २१ ॥

 वरूथिनीं-चतुरङ्गबलं योजयित्वा-समुपस्थाप्य । अथ अक्षौहिणीसङ्ख्यसेनापरिवृतो भूत्वा ॥ २१ ॥

 नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।
 आश्रमान् क्रमशो राम ! विचरन्नाजगाम ह ॥ २२ ॥
 वसिष्टस्याश्रमपदं नानावृक्षसमाकुलम् ।
 नानामृगगणाकर्णं सिद्धचारणसेवितम् ॥ २३ ॥
 देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।
 प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ २४ ॥
 ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।
 तपश्चरणसंसिद्धैः अग्निकल्पैर्महात्मभिः ॥ २५ ॥
 सततं संकुलं श्रीमद् ब्रह्मकल्पैर्महात्मभिः ।

 विद्यामात्राधिकृताः देवाः । लोकसञ्चारिणो नारदाद्या देवर्षयः । विद्याकर्मोभयाधिकृता [१]भूप्रतिष्ठा वसिष्ठाद्या ब्रह्मर्षयः । श्रीमान् यश्चतुर्मुखो भगवान् ब्रह्मा, तत्तुल्यवैभवैरित्यर्थः ॥ २५ ॥

 अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।
 फलमूलाशनैर्दान्तैः जितरोपैर्जितेन्द्रियैः ॥ २६ ॥
 ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।
 अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ॥ २७ ॥

 सहजतपोवैभवकर्ता स एव भगवान् ब्रह्मा, तद्रोमनखजवालखिल्याः वैखानसाश्च नित्यतपस्विनो भगवानिव; तज्जत्वं तु 'ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः' इति श्रुतेः ॥


  1. भूप्रतिष्ठा प्रधाना वसिष्ठा-घ.