कदाचित्तु महातेजाः योजयित्वा वरूथिनीम् ।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ २१ ॥
वरूथिनीं-चतुरङ्गबलं योजयित्वा-समुपस्थाप्य । अथ अक्षौहिणीसङ्ख्यसेनापरिवृतो भूत्वा ॥ २१ ॥
नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।
आश्रमान् क्रमशो राम ! विचरन्नाजगाम ह ॥ २२ ॥
वसिष्टस्याश्रमपदं नानावृक्षसमाकुलम् ।
नानामृगगणाकर्णं सिद्धचारणसेवितम् ॥ २३ ॥
देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ २४ ॥
ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।
तपश्चरणसंसिद्धैः अग्निकल्पैर्महात्मभिः ॥ २५ ॥
सततं संकुलं श्रीमद् ब्रह्मकल्पैर्महात्मभिः ।
विद्यामात्राधिकृताः देवाः । लोकसञ्चारिणो नारदाद्या देवर्षयः । विद्याकर्मोभयाधिकृता [१]भूप्रतिष्ठा वसिष्ठाद्या ब्रह्मर्षयः । श्रीमान् यश्चतुर्मुखो भगवान् ब्रह्मा, तत्तुल्यवैभवैरित्यर्थः ॥ २५ ॥
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।
फलमूलाशनैर्दान्तैः जितरोपैर्जितेन्द्रियैः ॥ २६ ॥
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ॥ २७ ॥
सहजतपोवैभवकर्ता स एव भगवान् ब्रह्मा, तद्रोमनखजवालखिल्याः वैखानसाश्च नित्यतपस्विनो भगवानिव; तज्जत्वं तु 'ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः' इति श्रुतेः ॥
- ↑ भूप्रतिष्ठा प्रधाना वसिष्ठा-घ.