पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
376
[बालकाण्डः
विश्वामित्रचरितोपक्रमः

 अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।
 विश्वामित्रो महातेजाः [१][२]वेद्मयेनं परमां गतिम् ॥१४॥

 अचिन्त्यकर्मेति । मनसाऽप्यन्येनाशक्यचिन्तनप्रतिसृष्ट्यादि कर्तारमेनं तव परां गतिं-परमहितप्रदं वेद्मि ॥ १४ ॥

 नास्ति धन्यतरो राम ! त्वत्तोऽन्यो भुवि कश्चन ।
 गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ १५ ॥

 तदेव प्रतिपाद्यते-नास्ति धन्येत्यादि ॥ १५ ॥

 श्रूयतामभिधास्यामि कौशिकस्य महात्मनः ।
 यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ॥ १६॥

 बलं-तपोबलं यथा-यादृशं, वृत्तं-चरितश्च यथा, तथा तत्सर्वं निगदतो मत्तः शृणु ॥ १६ ॥

 राजाऽभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।
 [३]धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १७ ॥
 प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः ।
 कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ १८ ॥

 राजाऽभूदित्युक्ते कस्य राज्ञः पुत्र इत्यपेक्षायामुच्यते-प्रजापति- सुत इत्यादि गतार्थम् ॥ १८ ॥

 कुशनाभसुतस्त्वासीत् गाधिरित्येव विश्रुतः ।
 गाधेः पुत्रो महातेजाः विश्वामित्रो महामुनिः ॥ १९ ॥
 विश्वामित्रो महातेजाः पालयामास मोदनीम् ।
 बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ २० ॥


  1. वेत्स्येनं-घ.
  2. वेत्सीत्यत्र काकुः-गो.
  3. सर्वज्ञः-ङ.