पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१ सर्गः]
375
अयं गाधिसुतः पूर्वं राजाऽऽसीत् सुबहुश्रुतः

 अपि मे गुरुणा रामः पूजितः कुशिकात्मज !
 इहागतो महातेजाः पूजां [१]प्राप्य महात्मनः ॥ ८ ॥
 अपि [२]शान्तेन मनसा गुरुर्मे कुशिकात्मज !
 इहागतेन रामेण[३]प्रयत्नेनाभिवादितः ॥ ९ ॥

 इह अस्मदाश्रये समागतो महातेजा रामः पूजितोपि ? महात्मनो मम गुरोस्सकाशात् पूजां प्राप्य शान्तेन मनसा उपलक्षितेनेहागतेन रामेण मम गुरुः प्रयत्नेनाभिवादितः किम् ?॥ ८-९ ॥

 तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।
 प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १० ॥
 नातिक्रान्तं, मुनिश्रेष्ठ ! यत्कर्तव्यं कृतं मया ।
 सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११ ॥

 यत् कर्तव्यं तन्नातिक्रान्तं-नातिपतितं, अपि तु मया कृतमेव । किं कृतमित्यतः-संगतेत्यादि । मुनिना-गौतमेन । भार्गवेणेति । भार्गव-कोपहता रेणुका परशुराममाता यथा पुनर्भार्गवेण-जमदग्निना संगता तद्वदित्यर्थः ॥ ११ ॥

 तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।
 शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२ ॥
 स्वागतं ते नरश्रेष्ठ ! दिष्ट्या प्राप्तोऽसि राघव !
 विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ १३ ॥

 दिष्ट्या-दैवयोगेन । विश्वामित्रपुरस्कारेणेह प्राप्तिर्दैवयोग- लभ्येति विश्वामित्रस्यैव स्तुतिः । तथैवाग्रे प्रतिपाद्यते । अपराजितं-अप्रतिहतशक्तिम् ॥ १३ ॥


  1. प्राप्तः-ङ.
  2. शान्तेन मनसा उपलक्षितो गुरुः-गो. ति.
  3. पूजितेना-ङ. ज.