पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
372
[बालकाण्डः
जनकसमागमः

 यज्ञोपसदनं-देवयजनम् । द्वादशाहमिति । द्वादश अहानि समाहृतानि,'राजाहः' इति टच्, 'न संख्यादेः ' इत्यह्नादेशाभावः, द्वादशदिनान्येवावशिष्टानि यज्ञस्येति मनीषिणो विद्वदृत्विज आहुः वदन्ति । बुवो लटि उसाहौ । देवान् द्रष्टुमर्हसीति । विश्वामित्रे तत्सामर्थ्याविस्मयात् ॥ २६ ॥

 इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥ १६ ॥
 पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ।
 इमौ कुमारौ, भद्रं ते, देवतुल्यपराक्रमौ ॥ १७ ॥
 गजसिंहगती वीरौ शार्दूलवृषभोपमौ ।
 पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ॥ १८ ॥
 अश्विनाविव रूपेण समुपस्थितयौवनौ ।
 [१]यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ॥ १९ ॥
 कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ! ॥ २० ॥
 वरायुधधरौ वीरौ कस्य पुत्रौ महामुने !
 भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ २१ ॥
 परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ।
 काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ २२ ॥

 इमौ कुमारावित्यादि गतार्थम् ॥ १७ ॥

 तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।
 न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ॥ २३ ॥


  1. एतदनन्तरं-पुण्डरीकविशालाक्षौ वरायुधधरावुभौ ॥
    बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती। काकपक्षधरौ वीरौ कुमाराविव पावकी। रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणौ ॥ प्राकाश्यं कुलमस्माक मामुद्धर्तुमिहागतौ । इत्यधिकं कचित् ॥ ङ.