पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१ सर्गः]
373
तत्राब्रवीत् शतानन्दः विश्वामित्रकथां मुद्रा

 सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ।
 तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥ २४ ॥
 अहल्यादर्शनं चैव गौतमेन समागमम् ।
 महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥ २५ ॥
 एतत्सर्वं महातेजा जनकाय महात्मने ।
 निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चाशः सर्गः

 महाधनुषि जिज्ञासां कर्तुं आगमनमिति । ज्ञानमिहापरोक्षं गृह्यते । महाधनुर्विषये रामस्य दिदृक्षां, तथा दृष्टस्य तस्य सज्जीकरणादिकं च कर्तुमिच्छया आगमनमित्येतत् सर्वं निवेद्य विरराम । चारु(२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चाशः सर्गः


अथ एकपञ्चाशः सर्गः
[विश्वामित्रचरितोपक्रमः]

 तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।
 हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ १ ॥

 अथ शतानन्देन निजमात्रनुग्रहाय रामनेतरि विश्वामित्रे परमप्रीत्या तद्वैभववर्णनमुत्तरैस्सर्गैः । तस्येत्यादि । हृष्टरोमा-स्वमातुः प्रत्यापतिश्रवणजसन्तोषेण सञ्जातरोमाञ्चः ॥ १ ॥

 गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।
 रामसन्दर्शनादेव परं विस्मयमागतः ॥ २ ॥