पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५० सर्गः]
371
अथ ते मिथिलां प्रापुः, जनकस्तानपूजयत्

 स तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥ ९ ॥
 यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवत् ।

 स तांश्चेति । स्वस्यार्ध्यदातॄन् ऋत्विजश्च कुशलं पृष्ट्वेत्यर्थः । प्रहृष्टवदिति । भावे निष्ठान्तान्मतुप् । सन्तोषसहितं यथा तथा सर्वैः संगतो बभूवेत्यर्थः । कश्चित् 'तदर्हम्' इति वतिरित्याह- तदसत्-राजानमर्हति छत्रं राजवदिति अर्हक्रियावत् द्वितीया समर्थां का चन क्रियाऽपीह दृश्यते ? ॥ ९ ॥

 अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥ १० ॥
 आसने भगवन्नास्तां सहैभिर्मुनिसत्तमैः ।
 जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥ ११ ॥
 पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ।

 निषसाद महामुनिरित्यादिना यथान्यायमासनोपवेशः ॥ ११ ॥

 आसनेषु यथान्यायमुपविष्टान् समन्ततः ॥ १२ ॥
 दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ।
 अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ॥ १३ ॥
 अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ।

 समृद्धिः–अङ्गवैकल्यराहित्येन सद्गुणसमग्राङ्गोपेता जाता । अत एव सफला कृता । इष्टिरिति शेषः ॥ १३ ॥

 धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ! ॥ १४ ॥
 यज्ञोपसदनं ब्रह्मन् ! प्राप्तोऽसि मुनिभिः सह ।
 द्वादशाहं तु ब्रह्मर्षे ! शेषमाहुर्मनीषिणः ॥ १५ ॥
 ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक !