पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
370
[बालकाण्डः
जनकसमागमः

 बहूनीह सहस्राणि नानादेशनिवासिनाम् ।
 ब्राह्मणानां महाभाग ! वेदाध्ययनशालिनाम् ॥ ३ ॥

 अध्ययनशालिनामिति । सङ्घो दृश्यत इति शेषः ॥ ३ ॥

 ऋषिवाटाश्च दृश्यन्ते शकटीशतसंङ्कुलाः ।
 देशो विधीयतां ब्रह्मन् ! यत्र वत्स्यामहे वयम् ॥ ४ ॥

 शकटीशतेति । अग्निसम्भारशकटीशतैः सङ्कुलाः ऋषिवाटाः-यज्ञार्थमागताग्निहोत्रिमहर्षिनिवासा इत्यर्थः । एवं नैबिड्यात् स्वावासदेश-प्रश्नः-देश इत्यादि ॥ ४ ॥

 रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।
 [१]निवेशमकरोद्देशे विविक्ते सलिलान्विते ॥ ५ ॥

 विविक्ते सलिलान्वित इत्यनेन[२] योगानुष्ठानसौकर्यमुक्तम् ॥

 विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।
 शतानन्दं पुरस्कृत्य पुरोहित[३]मनिन्दितम् ॥ ६ ॥
 प्रत्युज्जगाम सहसा[४]विनयेन समन्वितः ।

 प्रत्युज्जगामेति । दीक्षितविमितप्रदेशसीमाकमनतिलङ्घयन्निति शेषः ॥ ६ ॥

 ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ॥ ७ ॥
 विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् ।
 प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥ ८ ॥
 पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् ।

 निरामयं-निर्विघ्नम् ॥ ८ ॥


  1. निवास-ङ.
  2. यागानुष्ठान-ग.
  3. मनिन्दितः-ङ.
  4. विस्मयेन-ङ.