यज्ञोपसदनं-देवयजनम् । द्वादशाहमिति । द्वादश अहानि समाहृतानि,'राजाहः' इति टच्, 'न संख्यादेः ' इत्यह्नादेशाभावः, द्वादशदिनान्येवावशिष्टानि यज्ञस्येति मनीषिणो विद्वदृत्विज आहुः वदन्ति । बुवो लटि उसाहौ । देवान् द्रष्टुमर्हसीति । विश्वामित्रे तत्सामर्थ्याविस्मयात् ॥ २६ ॥
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥ १६ ॥
पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ।
इमौ कुमारौ, भद्रं ते, देवतुल्यपराक्रमौ ॥ १७ ॥
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ।
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ॥ १८ ॥
अश्विनाविव रूपेण समुपस्थितयौवनौ ।
[१]यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ॥ १९ ॥
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ! ॥ २० ॥
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने !
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ २१ ॥
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ।
काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ २२ ॥
इमौ कुमारावित्यादि गतार्थम् ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।
न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ॥ २३ ॥
- ↑ एतदनन्तरं-पुण्डरीकविशालाक्षौ वरायुधधरावुभौ ॥
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती। काकपक्षधरौ वीरौ कुमाराविव पावकी। रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणौ ॥ प्राकाश्यं कुलमस्माक मामुद्धर्तुमिहागतौ । इत्यधिकं कचित् ॥ ङ.