पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
332
[बालकाण्डः
गङ्गावतरणम्

 गगनाच्छङ्करशिरः, ततो धरणिमाश्रिता ।
 व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ १५ ॥

 तीव्रशब्दपुरस्कृतमित्यत्र हेतुः–गगनादित्यादि ॥ १५ ॥

 मत्स्यकच्छपसङ्घैश्च शिशुमारगणैस्तदा ।
 पतद्भिः पतितैश्चान्यैः व्यरोचत वसुन्धरा ॥ १६ ॥

 "शिंशुमारस्त्वम्बुकपिः" इति वैजयन्ती । कप्याकारो जलचरविशेष इत्यर्थः । पतद्भिरिति वर्तमानप्रयोगः ॥ १६ ॥

 ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा ।
 व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा ॥ १७ ॥

 गगनात् गां गतामिति । रुद्रजटाकाशात् भुवमित्यर्थः ॥ १७ ॥

 विमानै[१]र्गगनाकारैर्हयैर्गजवरैस्तदा ।
 [२]पारिप्लव[३]गताश्चापि देवतास्तत्र विष्ठिताः ॥ १८ ॥

 गजवरैरिति । चरन्त इति शेषः । गगनशब्देन मेधा लक्ष्यन्ते । पारिप्लवो यानभेदः (शिबिकादिभेदः) शिबिकादिरूपः कुबेरादेः ; तं गताः । द्वितीयासमासः ॥ १८ ॥

 तदद्भुततमं लोके गङ्गापतनमुत्तमम् ।
 दिदृक्षवो देवगणाः समीयुरमितौजसः ॥ १९ ॥

 अमितौजसो देवगणाः इत्यनेन वस्वादय उच्यन्ते ॥ १९ ॥

 सम्पतद्भिस्सुरगणैस्तेषामाभरणौजसा ।
 शतादित्यमिवाभाति गगनं गततोयदम् ॥ २० ॥

 उक्तविशेषणमूलमुपमानं-सम्पतद्भिरित्यादि ॥ २० ॥


  1. र्नगराकारैः-ङ.
  2. घारिप्लवं संभ्रमं गतैरिति विमानादिविशेषणम्-गो.
  3. गतैः- ङ.