पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३ सर्गः]
333
यज्ञवाटं प्लावयन्तीं तां जह्नुरपिबत् तदा

 शिंशुमारोरगगणैमनैरपि च चञ्चलैः
 विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ २१ ॥

 विक्षिप्तैः-निस्सृतैरिति यावत् । विद्युच्छब्दोऽपि पुल्लिङ्गः,लिङ्गमशास्यमिति प्रयोगैकावसेयत्ववादाल्लिङ्गस्य । कथं तर्हि विद्युदादेर्नियतलिङ्गपाठः ? प्रायोऽभिप्रायादित्येव ॥ २१ ॥

 पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।
 शारदाभ्रैरिवाकीर्णैः गगनं हंससंप्लवैः ॥ २२ ॥

 सलिलोत्पीडः–फेनः । सहस्रधा कीर्यमाणैरिति । वाय्वाद्युपाधित इति शेषः । अत एव आकीर्णैश्शारदाभ्रैरिव हंससंप्लवैः हंससमूहैरिव च गगनं आभातीति पूर्वेणान्वयः । एवं पाङ्क्ते पाठे अर्थे च स्थिते आकर्णिमिति पठति । सलिलोत्पीडो जलपिण्ड इति च [१] व्याकरोति ॥

 क्वचिद्दुततरं याति कुटिलं क्वचिदायतम् ।
 विनतं[२] क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः ॥ २३ ॥

 क्वचिद्दुततरं यातीति ।[३]गङ्गासलिलमिति शेषः। आयतं-बहुप्रदेशव्यापितया विस्तृत- प्रवाहं, क्वचिद्विनतं-अगाधदेशे सङ्कचित-प्रवाहं । उद्ध्रूतमिति । पाषाणादिताडनादिति शेषः । इदमेवोर्ध्वपथ-गमनेऽपि निमित्तम् ॥ २३ ॥

 सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।
 मुहुरूर्ध्वमुखं गत्वा पपात वसुधातलम् ॥ २४ ॥
 तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।
 व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २५ ॥

 निर्मलत्वे हेतुः भ्रंशद्वयम् ॥ २५ ॥


  1. मज्ञेश्वरतीर्थः
  2. क्वचिदुद्भूतम्-ङ.
  3. गाङ्ग सलीलमित्यार्षः-ग.